SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य - तत्वमुक्ताकलापः नोक्तौ दोषौ स्वधीवाग्विहतिरितरथा सर्वार्थसिद्धिः बाधस्याशामोदकायमानत्वात् * विकल्पप्रामाण्यं च वक्ष्यते। अतो यथादर्शनं क्वचित्किश्चिद्धतते न स्वस्मिन् इति व्यवस्थिते त्वदुक्तौ व्याघातात्माश्रयदोषौ न स्त इत्याह–अतो नोक्तौ दोषाविति । अन्यथा अनिष्टमाह—स्वधीवाग्विहतिरितरथेति । स्वधीविहतिः स्ववाग्विहतिः, स्वधीवाग्विहति आनन्ददायिनी योर्बाधकयोरद्याप्यलब्धजीवितत्वादित्यर्थः । ननु सर्वविकल्पानां वासनानिर्मिततया प्रकारद्वयेनापि विषयव्यवस्थापकत्वमनुपपन्नमित्यत आहविकल्पेति--बुद्धिसर इति शेषः । स्वधीवाग्विहतिरिति-धीश्च वाक्चेतीतरेतरयोगे द्वन्द्वसमासः । भावप्रकाशः कारकब्रह्मज्ञानं त्वप्रमेत्यभ्युपेयते इति शङ्कायामाह-विकल्पप्रामाण्यमित्यादि। * वक्ष्यते इति । बुद्धिसरे (३३) इति भावः । इदमत्र बोध्य-प्रकारभूतो व्यावर्तकोऽपि धर्मो द्विविधः-उपलक्षणं विशेषणं चेति । स्वविशेष्यमात्रेऽन्वयि उपलक्षणं स्वविशेष्यान्वितेऽप्यन्वयि विशेषणमिति आद्यस्य दण्डी कुण्डलीत्यादिकं द्वितीयस्य रूपवान् प्रमेय इत्यादिकमुदाहरणं इति ज्ञानत्वव्यापकं किञ्चिन्निष्ठप्रकारतानिरूपितविशेष्यताकत्वमिति नियमस्यानुभवसाक्षिकस्य न बाध इति ॥
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy