SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य सर्वार्थसिद्धिः तीतिरेव नास्ति, सत्यपि वा निष्काराणिका, सकारणापि वा दुर्निरूपकारणा, निरूपितकारणापि वा निर्विषया, सविषयाऽपि वा बाधितविषया? इति; नाद्यः; लौकिकपरीक्षकबहिष्कारप्रसङ्गात् । '* सर्वशून्यवादिनापि हि संवृत्या विशिष्टधीरिप्यते । न द्वितीयः, कार्यस्य कारणावश्यम्भावात् । तदन · आनन्ददायिनी सिद्धान्तिवाक्यं । नन्विति प्रश्नपरं। उत्तरमाह-किमित्यादि । प्रतत्यिा अर्थक्लृप्तिर्द्वधा - कार्यत्वेन कारणतया, विषयत्वेन विषयितया वा; उभयथाऽपि न सम्भवतीति प्रथमः कल्पः । कार्यत्वेन कारणतयाऽर्थकल्पनं न संभवतीति द्वितीयतृतीयौ। विषयविषयितया कल्पनं न संभवतीति चतुर्थपञ्चमाविति विवेकः । संवृति . भावप्रकाशः * सर्वशून्यवादिनाऽपीत्यादि । तदुक्तं माध्यमिकवृत्तौ-अपि च लोकव्यवहाराङ्गभूतो घटः पतिनीलादिव्यातिरिक्तो नास्तीति कृत्वा तस्योपचारः कल्प्यते । नन्वेवं सति पृथिव्यादिव्यतिरेकेण नीलादिकमपि नास्तीति नीलादेरप्यौपचारिकं प्रत्यक्षत्वं कप्ल्यतां । यथोक्तम् रूपादिव्यतिरेकेण यथा कुम्भो न विद्यते। वाय्वादिव्यतिरेकेण तथा रूपं न विद्यते ॥ इति । तस्मादेवमादिकस्य लोकव्यवहारस्य लक्षणेनासङ्ग्रहादव्यापितैव लक्षणं स्यात् । तत्वविदपेक्षया हि प्रत्यक्षं घटादीनां नीलादीनां च नेष्यते । लोकसंवृत्या त्वभ्युपगन्तव्यमेव प्रत्यक्षत्वं घटादीनां । यथोक्तं शतके सर्व एव घटो दृष्टो रूपे दृष्टे हि जायते ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy