________________
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
कथं निषेधः ? योग्यानुपलब्धेरिति चेन्न तदुपलब्ध्यनुपलब्ध्योरपि विरोधाभावात् । किंच अनुपलब्धिः अभावोपस्थापनेन भावं विरुन्ध्यात् तदा कथं तच्छ्रन्ये तस्य वृत्तिः । न द्वितीयः । आत्माश्रयापातात् '* विशिष्टं विशेषणविशेष्यतत्संबन्धातिरिक्तं
78
[जडद्रव्य
आनन्ददायिनी
ननु तत्राप्यनुपलब्धया निश्चयोऽस्त्विति शङ्कते —— योग्यानुपलब्धेरिति । अनुपलब्धिर्न तावत्स्वरूपाभावाविषया; अपितूपलब्धयभावरूपतया उपलम्भरूपप्रमाणाभावे प्रमेयाभाव इति व्याप्तया वा प्रत्यक्ष सहकारेण वा । उभयथाऽपि नानुपलब्धिमात्रमभावनिश्चयहेतुः घटवति घटानुपलब्धिमति व्यभिचारात् । किञ्च तयाऽभावनिश्चयोऽस्तु तावतापि रूपज्ञानं रसवत्त्वमिव कथं भावं निरुन्ध्यात् विरोधाभावात् इत्याहन तदुपलब्यनुपलब्धयोोरिति । ननु अनुपलब्धिरभावमुपस्थाप्य सत्त्वविरोधी न भविष्यतीत्यत्राह — किञ्चेति । तथा सति भावस्याभाववि
भावप्रकाशः
त्युक्तं । तत्र प्रथमपक्षवादिन इत्थमाहुः - विशिष्टं विशेषणविशेष्यतत्सम्बन्धातिरिक्तं। समूहालम्बनाद्विशिष्टज्ञानस्य समूहालम्बनजन्यव्यवहाराद्विशिष्टव्यवहारस्य च भेदात् । एकः पुरुष इत्यादिप्रतीतिविलक्षणादेको दण्डीति प्रत्ययात् प्रत्येकाभावाद्विशिष्टाभावस्यापि भेदाच्च । विशेषणसन्निधानेन विशेष्यं विशेष्यसंनिधानेन विशेषणं विशेषणविशेष्योभयं वा विशिष्टोपादानं । विशिष्टप्रत्येकयोश्च भेदाभेद इति । तन्मतेनात्र समाधिर्न सम्भवतीत्याह – ' * विशिष्टमित्यादि ।