________________
60
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकला
सर्वार्थसिद्धिः
तथा सम्बन्ध्यनेकत्वं स्वाभीष्टे च समत्वतः ॥ इति द्रव्यसाधनम्
आनन्ददायिनी
बाधकं न भवति तथा सम्बन्ध्यनेकत्वं — घटसम्बन्धिनां रूपरसादीनामनेकत्वं बाधकं न भवति । यद्वा – यथैकस्य वस्तुनः प्रतिसम्बन्धिनो - विरोधिनो बहुवस्सन्ति तथेत्यर्थः । स्वाभीष्टे - क्षणिकत्वबुद्धौ । अन्यथा वेद्याकारैर्बुद्धेरपि भेदःस्यादिति भावः ॥ ८ ॥
इति द्रव्यसाधनम्
[जडद्रव्य
इह वादिनां बहूनि कर्तव्यानि भवन्ति - स्वपक्षप्रदर्शनं तत्र साधनोपन्यासः साधनसमर्थनं प्रतिवाद्युद्भावितस्वपक्षदूषणोद्धारः परपक्षक्षणसमर्थनं इत्यादीनि तंत्र द्रव्याद्रव्यविभागेन स्वपक्षप्रदर्शनं कृतं । प्रत्यभिज्ञाश्लोके च प्रमाणोपन्यासः । तदनन्यथासिद्धयुपपादनेन च क्षीणानि चक्षुरादीनि रूपादिष्वेव पञ्चमु । न षष्ठमिन्द्रियं तस्य ग्राहकं विद्यते बहिः ॥ नैकं रूपाद्यभेदो वा दृष्टं चेन्नेन्द्रियेण तत् । अक्षानेकत्ववैयर्थ्यं स्वार्थे भिन्नेऽपि शक्तिमत् ॥
भावप्रकाशः
लोकावतारणार्थं च भावा नाथेन देशिताः । तत्वतः क्षणिका नैते .
U
(बोधि+पं ३७६) इति भाषमाणो माध्यमिको वा विजयी स्यादिति भावः । एतच्च बुद्धिसरे (३३) श्लोकविवरणे-'विकल्पविषया वस्तुत्वे इत्यादिना आचार्यैरेव वक्ष्यते ॥
"