________________
50
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[ जडद्रव्य
तत्वमुक्ताकलापः नैकत्वेऽप्यक्षभेदाद्भिदुरमित्र मिथस्संश्रयादिसर्वार्थसिद्धिः
नियतसामग्रीबोध्यत्वेन ग्रहणाग्रहणयोरुपपत्तेरिति । नन्वस्तु प्रतिसंधानबलात् द्वीन्द्रियग्राह्यं किंचित ; तत्तु रूपरसाद्यात्मकमिति वा तदाश्रय इति वा न मृष्यामहे; तेषामेवाभावात् । एकस्मिन्नेव ग्राहकभेदात्तत्तद्धर्मधीः ; यथा – मणिकृपाणदर्पणादिव्यञ्जकभेदान्मुखादेरणुत्व पृथुत्वमलिनत्वविमलत्वादिधी : सव्यदक्षिणविपर्यासश्चेति । तमिमं पक्षं प्रतिक्षिपति नैकत्वेऽप्यक्षभेदाद्भिदुरमिवेति इह तावत् सर्वत्रासिद्धस्य कल्पनानुपपत्तिरुक्ता । बाधकान्तरमाह — मिथ इति चक्षुरादिग्राहकवैजात्यं आनन्ददायिनी
तत्राप्युपकारशक्ति कल्पनमुखेन बहुविप्लवप्रसङ्गात् । तथाच धर्माणां भेदे युगपद्गुहणनियमोऽपि नास्ति ; ग्राहकाणां परस्परव्यभिचारित्वात् । तस्मात् धर्मिणो ग्रहणेऽप्यनिश्चितांश संभवात् ' को भेदस्स्यादनिश्चित: ' इत्यनुपपन्नं ; रूपस्य ग्रहणेऽपि रसस्याग्रहणोपपत्तेः । रूपादितया विकप्यमानस्येत्युक्तं पक्षं दूषयितुमनुभाषते नन्वस्तु प्रतिसन्धानबलादिति । एकस्मिन् वस्तुनि रूपरसाद्याकारबुद्धिः कथमित्यत्राह —— एकस्मिन्नेवेोते । ननु ग्राहकनिष्ठानां धर्माणां ग्राह्ये ग्रहणमस्तु तत्राविद्यमानानां रूपादर्शनां कथं ग्रहणमित्यत्राह - सव्यदक्षिणाविपर्यासश्चेति । इह तावदिति । क्वचिदप्यसिद्धस्यारोपासंभवात् ग्राहकभेदान्न भेदधीरित्यर्थः । किञ्च इन्द्रियभेदः प्रमितो ग्राह्येऽध्यस्यते उत सत्तयेति विकल्प्याद्यं दूषयतिचक्षुरादीति ।