________________
सरः]
द्रव्यसाधनम्
31
. भावप्रकाशः अभिन्नदेशकालं स्वलक्षणमिति वक्ष्यते । धर्मकीर्तिश्चेत्थमाह न्यायबिन्दौ'तस्य विषयः स्वलक्षणं, यस्यार्थस्य सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदः तत्स्वलक्षणं तदेव परमार्थसत् अर्थक्रियासामर्थ्यलक्षणत्वाद्वस्तुनः अन्यत्सामान्यलक्षणम्' इति। व्याचख्यौ च धर्मोत्तराचार्यः --- तदेवं प्रत्यक्षस्य कल्पनापोढत्वाभ्रान्तत्वयुक्तस्य प्रकारभेदं प्रतिपाद्य विषयविप्रतिपत्तिं निराकर्तुमाह-तस्येत्यादि। तस्य-चतुर्विधप्रत्यक्षस्य। विषयोबोद्धव्यः । स्वलक्षणं-स्वं असाधारणं तत्वं लक्षणं स्वलक्षणं । वस्तुनो ह्यसाधारणं तत्वमस्ति सामान्यं च । यदसाधारणं तत्प्रत्यक्षग्राह्यं । द्विविधो हि प्रमाणस्य विषयो ग्राह्यश्च । यदाकारमुत्पद्यते प्रापणीयश्च यमध्यवस्यति ; अन्यो हि ग्राह्योऽन्यश्चाध्यवसेयः । प्रत्यक्षस्य हि क्षण एको ग्राह्यः । अध्यवसेयस्तु-प्रत्यक्षबलोत्पन्नेन निश्चयेन सन्तान एव । सन्तान एव च प्रत्यक्षस्य प्रापणीयः । क्षणस्य प्रापयितुमशक्यत्वात् । तथाऽनुमानमपि स्वप्रतिभासेऽनर्थेऽनर्थाध्यवसायेन प्रवृत्तेरनर्थग्राहि । स पुनरारोपितोऽर्थो गृह्यमाणः स्वलक्षणत्वेनावसीयते यतस्ततस्स्वलक्षणमध्यवसितं प्रवृत्तिविषयोऽनुमानस्य । अनर्थस्तु ग्राह्यः । तदत्र प्रमाणस्य ग्राह्यं विषयं दर्शयता प्रत्यक्षस्य स्वलक्षणं विषय उक्तः । कः पुनरसौ विषयो ज्ञानस्य यः स्वलक्षणं प्रतिपत्तव्यः ? इत्याह-यस्यार्थस्येत्यादि । अर्थशब्दो विषयपर्यायः । यस्य-ज्ञानविषयस्य । संनिधानंनिकटदेशावस्थानं । असंनिधानं-दूरदेशावस्थानं । तस्मात्-सन्निधानादसंनिधानाच्च । ज्ञानप्रतिभासस्य ग्राह्याकारस्य । भेदः-स्फुटत्वास्फुटत्वाभ्यां । यो हि ज्ञानस्य विषयस्संनिहितस्सन् स्फुटमाभासं ज्ञानस्य करोति असंनिहितस्तु योग्यदेशावस्थित एवास्फुटं करोति तत्स्वलक्षणं । सर्वाण्येव हि वस्तूनि दूरादस्फुटानि दृश्यन्ते समीपे स्फुटानि तान्येव