________________
ix
पूर्वोक्तं कृतकोटितत्संग्रहरूपं प्रबन्धयुगळं बोधायनोपवर्षमुनिद्वयकर्तृकतया श्रीमद्रामानुजाचार्येभ्योपि प्राचीने प्रपञ्चहृदयनाम्नि प्रधन्धे लक्षग्रन्थात्मकतया तत्संग्रहतया च निर्दिश्यते । अथापि तत्वटीकायां (द्वि. सं. ५४ पृ.) 'बोधायनटङ्कद्रमिडादिमहत्तरपरिग्रहप्राचुर्य दर्शयति' इति ; स्थलान्तरे च उपवर्ष प्रस्तुत्य — अस्यैव बोधायन इति नाम स्यात् ' इति चोक्तम् ; सेश्वरमीमांसायां च यत्तूक्तमुपवर्षवृत्तौ इत्यादिना तन्मतमनूद्य निरस्तमपि ; इत्येवं एकत्र बोधायनोपवर्षयोरभेदं परत्र च उपवर्षस्यान्यत्वं च गमयता निगमान्तगुरुणा बोधायनोपवर्षयोर्विषये कोऽपि संशय उद्भाव्यत इति प्रतिभायात् ; तत्रेत्थं निगमान्तगुरोराशयमाकल्यामः ; वैजयन्तनिाम्नि हि कोशे----
हलभूतिस्तूपवर्षः कृतकोटिमुनिम्तथा ॥ इति पर्यायनिर्देशः क्रियते । तत्र चोपवर्ष एव कृतकोटिमुनिरिति निर्दिश्यते । इत्थं च कृतकोटिमुनिरिति बोधायनावगतिर्निरुध्येत । प्रसिद्धा च वोधायनस्य कृतकोटिग्रन्थप्रणेतृता ; अतः उपवर्ष एव बोधायन इत्यभ्युपगमयत्युपवर्षस्य कृतकोटिक तोक्तिरित्यवगमयितुं तत्व टीकायामचार्येण 'अस्यैव बोधायन इति नाम स्यादिति सूक्तिः प्रवर्तित स्यात् '। सेश्वरमीमांसायां च उपवर्षग्रन्थानुवादखंडने परं कृतकोटिग्रन्थसंग्रहकतारमुपवर्ष विषयीकृत्याप्युपपद्यते इति ।।
यद्यपि चार्षेषु ग्रन्थेषु बंहीयसी विलुप्तिरवगम्यते इत्याकलय्यानाकलय्य वा व्याससूत्रवृत्तिरूपोऽप्यार्पो निबन्ध आसीदिति विशिष्टाद्वैतिनां श्रीभाष्ये एव परमवगच्छामो नान्यत्र क्वापीति पराक्रमकलुषाशयाः प्रायः प्रपञ्चहृदयग्रन्थावलोकनेनोपशाम्येयुरपि ; श्रीमच्छङ्कराचार्यप्रबन्धेषु पर नामग्राहं बोधायनमताप्रदर्शनेन विश्वासदायमनासादयन्त स्संशयीरन्नपि ; तथाऽपि-व्याडि, विन्ध्यवासि, भवदास, कुणरवाडव,