________________
न्यायालङ्कारालङ्कृता ।
१८३ आत्मनो ज्ञानादीनां च तद्धर्माणां व्यतिरिक्तत्वे सति बाह्येन सकचन्दनाङ्गनादिना बलस्याऽऽधीयमानत्वात्, इह यस्याऽनात्मविज्ञानादेः सतो बाह्येन वस्तुना बलमाधीयते तद् मूर्त दृष्टम्, यथा स्नेहादिनाऽऽधोयमानबलो घटा, आधीयते च बाह्यमिथ्यात्वादिहेतुभूतैर्वस्तुभिः कर्मण उपचयलक्षणं बलम्, तस्मात् तद् मूर्तम् । तथा कर्म मूर्त आत्माद्यतिरिक्तत्वे सति परिणामित्वात् क्षीरवत् । एवमन्यपि हेतवो द्रष्टव्याः । ननु चाविद्यैवावरणं न पौद्गलिकंकर्म मूर्तनानेनामूर्तस्य ज्ञानादेरावरणानुपपत्तेः, इतरथा देहादेरप्यावारकत्वप्रसङ्गात्, तन्नः मदिरादिनामूर्तेनाप्यमूर्तायाश्चेतनाया आवरणोपलम्भात्, अमूर्तस्य चावारकतते गगनादेानान्तरस्य च तदापत्तेः । तदविरुद्धत्वात्तस्य तन्नेति चेत् ?, तर्हि देहादेरप्यत एव तद् मास्म मूत, तद्विरुद्धस्यैव तदावारकत्वप्रसिद्धः । प्रवाहेण प्रवर्तमानस्य ज्ञानादेरविद्योदये निरोधात्, तस्यास्तद्विरोधगतौ मदिरादिवत् पौद्गलिककर्मणोऽपि सा समस्तु, विशेषाभावात्, तथाहिआत्मनो मिथ्याज्ञानादिः पुद्गलविशेषसम्बन्धनिबन्धनः, तत्स्वरूपान्यथाभावस्वभावत्वात्, उन्मत्तकादिजनितोन्मादादिवत्, ननु चात्मगुणत्वात् कर्मणां कथं पौद्गलिकत्वमिति ?, तद् मन्दम्, तेषामात्मागुणत्वे तत्पारतन्त्र्यनिमित्तत्वविरोधान् सर्वदाऽऽत्मनो बन्धानुपपत्तेः सदैव मुक्तिप्रसक्तः, न खलु यो यस्य गुणः स तत्पारतन्त्र्यानिमित्तमर्हति भवितुम्, यथा पृथिव्यादे रूपादि, आत्मगुणश्च धर्माधर्मसंज्ञकं कर्म परैरभ्युपेयते इति न तदात्मनः पारसन्यानिमित्तं स्यात्, न चैवम्, आत्मनः पारतन्त्र्येण प्रमाणतः प्रतीतेः । तद्यथा परतन्त्रोऽसौ, हीनस्थानपरिग्रहयत्वात् । मद्योद्रेकपरतन्त्राऽशुचिस्थानपरिग्रहव.