________________
स्तबकः]
स्याद्वादवाटिकाटीकासङ्कलितः एव भवद्भिः, लोकप्रसिद्धमनुमानादिकमभ्युपेयत एवास्माभिरित्याशयेन पर आहचैतन्योत्पत्तिरेव चेदिति-चैतन्योत्पत्तिरेव चैतन्यजननस्वभावं प्राणं विनाऽनुपपद्यमाना प्राणे चैतन्यजननस्वभावे प्रमाणमिति यदीत्यर्थः ॥ ७० ॥ उत्तरवादी आह
न तस्यामेव सन्देहात, तवायं केन नेति चेत् ।
तत्तत्स्वरूपभावेन, तदभावः कथं नु चेत् ॥७१ ॥ नेति । निषेधे हेतुः तस्यामेव संदेहादिति-किमियं चैतन्योत्पत्तिः प्राणप्रयोज्या? उताऽऽत्मप्रयोज्या? इत्येवं चैतन्योत्पत्तिविशेष्यकप्राणप्रयोज्यत्व. प्रकारकाऽऽत्मप्रयोज्यत्वप्रकारकसंदेहादित्यर्थो न संभवति, एकत्रापि धर्मिणि प्राणप्रयोज्यत्वाऽऽत्मप्रयोज्यत्वयोः सम्भवेन तयोर्विरोधाभावेन एकत्र विरुद्धनानाधर्मप्रकारकं ज्ञानं संशय इति संशयलक्षणाघटनात् , किन्तु प्राणप्रयोज्यत्वतदभावा-ऽऽत्मप्रयोज्यत्व-तदभावेति चतुष्कोटिप्रकारकचैतन्योत्पत्तिविशेष्यकज्ञानरूपसंदेहादित्यर्थः, तत्राऽऽत्मप्रयोज्यत्व-तदभावप्रकारसंदेह आत्मनश्चैतन्यो. त्पत्तावन्यथासिद्धत्वशङ्कापर्यवसितो विशेषदर्शनान्निवर्तते इति न तत आत्मनचैतन्योत्पत्तिं प्रति कारणत्वनिश्चयप्रतिबन्धः, प्राणप्रयोज्यत्वतदभावकोटिकचैतन्योत्पत्तिधर्मिकसंदेहस्तु प्राणस्य चैतन्योत्पत्तावन्यथासिद्धत्वशङ्कापर्यवसितो विशेषदर्शनाभावान निवर्तत इति ततः प्राणस्य चैतन्योत्पत्तिं प्रति कारणत्वनिश्चयस्य प्रतिबन्धः स्यादेव, अत एव श्रीहरिभद्रसूरिभिः "तस्यामेव चैतन्योस्पत्तो संदेहात् प्राणादिकार्यत्वेन" इत्येव व्याख्यातम्, ततः प्राणादिकार्यत्वतदभावोभयकोटिकचैतन्योत्पत्तिधर्मिकसंदेहादित्यर्थोऽभिमत इति बोध्यम् । पर आह-तवेति-तव अतिरिक्तात्मवादिनः । अयं संदेहः, स च 'चैतन्योत्पत्तिरात्मप्रयोज्या नवा?' इत्याकारक आत्मनश्चैतन्यं प्रत्यन्यथासिद्धत्वशङ्कापर्यवसित आत्मनश्चैतन्यं प्रति कारणत्वनिश्चयप्रतिबन्धकः, केन मानेन न केन प्रमाणेन प्रतिबन्धान भवति?, निरुक्तसंशयाभाव एवाऽऽत्मनश्चैतन्योत्पत्तौ कारणत्वनिश्चयः स्यात् । अत्रोत्तरवादी आह-इति चेदिति-एवं यदि त्वं मन्यसे तर्हि तदुत्तरमिदमवधारयेत्यर्थः। तत्स्वरूपभावेन तस्य चैतन्यस्याऽऽत्मस्वरूपभावेनाऽऽत्मधर्मानुविधायित्वेन, यद् यद्धर्मानुविधायि तत् तदुपादानकम् , यथा घटो मृद्धर्मानुविधायी मृदुपादानकः, आत्मधर्मानुविधायि च चैतन्यमत आत्मोपादानकमित्येवं
NW