________________
तुम्बनिरूपणम्
३९९ एषामशेषशासननयाराणामुपग्राहकं जिनवचनं तद्यथा - 'इमाणं भंते! रयणप्पभा पुढवी किं सासता असासता', इति पृष्टे व्याकरणं, 'सिया सासता सिया असासता', इति समग्रादेशात्, पुनः, 'से केणटेणं भंते एतं एवं वुञ्चति सिया सासता सिया असासता', तस्य विकलादेशाद्वयाकरणं, रत्नप्रभायाः स्वतत्त्वमुभयात्मकं विभागेन विदधाति तद्यथा – 'दव्वट्टताए सासता वण्णपज्जवेहिं गंधपज्जवेहिं रसपज्जवेहिफासपज्जवेहिं संठाणपज्जवेहिं असासता' इति तदनुपातवृत्तेः ससाधननाभिक्रिया जस्याः शाश्वताशाश्वतधर्मस्वतत्त्वायाः कारणाभ्यां द्रव्यार्थपर्यायार्थभ्यां कारितं, स्वतत्त्वं विदधतो जिनवचनस्यानुगमात्।
द्वादशानामराणामित्थं तुम्बक्रिया, तत्प्रतिबद्धसरावस्थानात्, अतोऽन्यथा विशरणात्, तद्यथा विधि-विधिविधिविध्युभय--विधिनियम-उभय-उभयविधि-उभयोभय-उभयनियमनियम-नियमविधि-नियमोभय-नियमनियमा ऐकमत्येनान्योन्यापेक्ष -वृत्तयः सत्यार्थाः, तत्तत्रयदर्शनविकल्पैकवाक्यात्मकत्वात्, घटवत्, एतद्भङ्गनियतस्याद्वादलक्षणः शब्दः स्यानित्यः, स्यानित्या -नित्यः, स्यादनित्यः, विध्यादिद्वादशविकल्पनियताकृतककृतकाकृतककृतकत्वानेकान्तविकल्पात्मकत्वात्, घटवदिति। ___व्याख्यानदिक्प्रदर्शनसाधनन्तु व्यवहारैकत्व-सर्वैकत्वसर्वसर्वत्वो-भयप्राधान्या-न्यतर-प्रधानोपसर्जनत्वे-तरेतराभावभेदप्रधानत्वा-वक्तव्यत्वभेदसमुदायिमात्रत्व-क्षणिकत्व-शून्यता-. नित्यः शब्दः, व्यवहारैकत्वसर्वैकत्वसर्वसर्वत्वोभय प्राधान्यान्यतर