SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ द्वादशभङ्गस्यान्तरम् ३९७ दर्शनमेव संवादेन रूपादिपृथिव्यादिपरस्परसामग्रीघटपटादीति दृश्यते संज्ञायते प्रवर्त्तते चेतनं जगदिति। यदि सामग्रयशेषता सर्वस्य सर्वत्र वृत्तेः तिलेषु तैलवत् सिकतास्वपि तैलं स्यात्, तत्राभाववत्तिलेष्वप्यभाव एव स्यात्, ननु यथा तिलेष्वव्यक्तं स्वाभिव्यक्त्युपायादुपलभ्यते तथा सिकतास्वप्यनभिव्यक्तं तैलं नोपलभ्यते, सिकताभूप्रदेशोप्ततिलबीजस्याङ्गुरमूलपर्णादिप्रभवः सिकतानामेव, तथातथा विपरिवृत्तेः, तद्वदुदकादि -द्रव्येषु। सदा दर्शनात् संसिद्धयादिहेतुभिः सम्पादितसर्वात्मकैकवस्तुत्वाददर्शनाददृश्यमानभागान्तरासत्त्वेन कल्पिता अपि न परमार्थतोऽसन्तो न वा न दृश्यन्ते, भावितवदेकभवनात्मकत्वात् तदपृथग्भागान्तराणामपि दर्शनमेव, निर्विभागमेव हि सद्वस्तु, विभागेनेक्षणं भ्रान्तिरित्युक्तम्, तस्मात् स एवास्ति स्वतः परत उभयतथेति, यथोक्तं 'तदेजति तनेजति तद्दूरे तदुपान्तिके। तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः॥" 'यथा सुदीप्तात् पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः। तथाक्षराद्विविधाः सौम्या भावाः प्रजायन्ते तत्र चैवापियन्ति ॥२ इति । भावितानेकार्थद्रव्यार्थभेदवत्, यः पुनर्भेदः सोऽसत्येव भेदे भेदाभिमानः, तस्य क्रमाभिव्यक्तेः, एकद्रव्यस्वतत्त्वरूपादिवदिति। द्वादशारान्तरं समाप्तम्। १. ईशावास्योपनिषद् ५ २. मुण्डकोपनिषद् २.१.१
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy