SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ द्वादशभङ्गस्यान्तरम् आत्मलाभेऽभिन्नप्रकारत्वात्, एकवत्, न हि ताभ्यामस्तित्वैकत्वाभ्यां घटस्यान्यत्वमस्ति घटात् सर्वभेदभाजस्तयोरन्यत्वम्, तदनन्यत्वे तेषामपि घटात्मकत्वं तदनर्थान्तरत्वात्, घटस्वात्मवत् इति । ३९५ नन्वेकत्वे प्रत्यक्षसिद्धं तृप्तिसुखादि विरुध्यत इति, ननु तत् सर्वसिद्धान्तेष्वपि, प्रत्यक्षसिद्धमन्यथा मत्वा मोक्षायाऽऽयत्यत इति न वा पुनरन्या विमतिः कार्या । अनुत्पादादपि सर्वभावाः सन्ति, यदि हि तद्वस्तुत्पद्येत विनश्येद्वा ततः प्राक् पश्चादभाववन्मध्येऽप्यभावः स्वभावस्वाभाव्यात्, न स्यादेकरूपं भेदवद्वा स्यात्, या त्वया तर्क्यते सा सम्भाव्येतोत्पत्तिविनाशसद्भावे, न तु कस्यचिद्वस्तुन आदिरन्तो वा, वस्तुत्वात्यागात्, न हि वस्तु स्वरूपं त्यजति, शिवकादिकपालादि घटमृद्वत् । अनाद्यनन्तमूर्त्तिमूर्त्तवच्चामूर्त्तमप्यनुत्पादविनाशाभ्यामनाद्यनन्तम्, अतोऽसौ तथाऽवस्थित एकस्वभावो निर्भेदः भेदासम्भवात्, उत्पादविनाशाभ्यां हि भेदः सम्भाव्येत, स तु न भवति । नन्वनिष्ठितं प्राक् पश्चादारम्भात्, आरम्भवचनात्, तत्र यदि निष्ठितं स्यात् निष्ठितत्वान्नारभ्येत निष्पन्नघटवदिति, इदं विप्रतिषिद्धं यद्यनिष्ठितं अनिष्ठितत्वादसत् खपुष्पवत्, इतरो घटवत्, यथा घटो मृद्रूपादित्वेन निष्ठित एव सन्नाकारान्तरव्यक्तिरूपतो व्यज्यते, यदि न तथाऽऽरभ्येत किं न खपुष्पादद्रव्यादेर्वाऽऽरभ्यते ? एतदुक्तं भवति संक्षेपतस्तद्रूपशक्तिविवर्त्तमात्रन्त्वेतत्सर्वम्, भावैकत्वात्, अतो नानिष्ठितं निष्ठितमेव वस्तु, अनारब्धारब्धत्वात्,
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy