SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ३८६ द्वादशारनयचक्रे तावपि न स्तः, विनष्टानुत्पन्नत्वात् तदभावे तदपेक्षत्वात्तन्मध्यवस्त्वभावः, दग्धेन्धनज्वालावत्, यद्धि पूर्वोत्तरयोः कालयो स्ति तन्मध्ये कथं सम्भाव्येत? असत्तद्भवति, पूर्वोत्तरकालयोरसत्त्वात्, खपुष्पवदिति। अथोच्येत आदौ मध्ये, न चोत्पन्नमात्रे, कार्य तत्त्वोपनिलयनात् प्रागसदेव, तदर्थं प्रवृत्तेः, न हि तदर्थित्वं सति तस्मिन्नुपपद्यते, तत्त्वोपनिलयनादुत्तरकालमस्ति, तदर्थमप्रवृत्तेः, न ह्यसति तस्मिंस्तदर्थी न प्रवर्तते, एतदसत्यम्, तदसत्त्वानिवृत्तेरसदेव स्यात् पुनरपि, तदादिमध्यान्तेष्वभूतत्वात् खपुष्पवदिति। इतश्च नास्ति वस्तु सामग्रीदर्शनादपि, सामग्रयां भावा दृश्यन्ते न प्रत्येकं स्वरूपेण, यच्च स्वरूपेण नास्ति तस्य सामग्रयामपि कुतोऽस्तित्वम्? इह लोके यावती घट इति संज्ञा कपालसामग्रयां पट इति संज्ञा तन्तुसामग्रयां रूपमिति च संज्ञा तत्सन्ताने तत्सामग्रीमात्रमेव, सामग्री च भावानां भावान्तरं प्रति व्यापारः, यथा तन्तूनां पटं प्रति व्यापारः, तत्र च सामग्रयामेकैकोऽवयवो नावयवी सम्भवति, तच्छक्त्यभावात्, न तावद्धेतुप्रत्ययसामग्री, पृथग्भावेष्वदर्शनात्, नापि तत्स्वरूपपृथक्त्वम्, अप्रत्यक्षतः, अनुमीयतेऽपि च नास्तीति, तत्सानिध्य एव तदर्थप्रवृत्तेः, यच्च येषु नास्ति तेषु तदर्थी तदर्थं न प्रवर्त्तते घटपटवत्, न हि कुम्भः पटे नास्तीति मत्वा तदर्थिनां तदर्थ प्रवर्त्तनं पटे दृष्टम्, पटोऽपि वा कुम्भे नास्तीति मत्वा तदर्थिनां तदर्थ प्रवर्तनं कुम्भेऽपि दृष्टम्।
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy