________________
२३०
द्वादशारनयचक्रे
आधाराधेयनियम इति, अवश्यश्चैतदेवं त्वयाऽपि प्रतिपत्तव्यं यथा त्वमेवात्र न समानत्वात् इत्युत्तरमात्थ, समवायस्यैकत्वेऽपि कारकशक्तेरेव नियमभेद इत्युत्तरमात्थ द्रव्यत्वादिसमवायो न सर्वत्र किन्तु कस्मिंश्चिदेवेति।
___ यत्तूच्यते व्यङ्गयव्यञ्जकत्वभेदाद्रव्यद्रव्यत्वादीनां भेदो घट प्रदीपवत् सम्बन्धैकत्वेऽपीति न सङ्करप्रसङ्ग इति, एतच्च व्यङ्ग्यव्यञ्जकत्वं द्रव्यद्रव्यत्वादेस्तदा स्यायदि प्रदीपघटदृष्टान्तवत् पृथक् सिद्धं स्यात् न तु तदात्मभेदनियमः, सिद्धे हि तदाधाराधेयभेदनियमोऽपि स्यात्, ततो न दृष्टान्तसाधर्म्य भजत एतदिति नासङ्करः स्यादेवम् समवायस्यैकत्वेन व्यतिरेकनियमयोरभावात् तथा यदि य एव गुणकर्मभावाभ्यां सम्बन्धः स एव द्रव्यस्यापीति प्राप्तं गुणकर्मणोरपि द्रव्यत्वम् द्रव्यत्वाभिसम्बन्धाच्च तयोर्गुणकर्मभावविनिवृत्तिरिति सर्व प्रपञ्चनीयं यथास्वार्थमिति।
यत्पुनरिदमाशङ्कितं समवायैकत्वं पञ्चत्वव्यवहारेण विरुध्यत इति तदेवमेव ममापि प्रतिभाति । यत्पुनरिदं प्रत्युच्यते, न आश्रयविशेषात्, भाववत्, जलचन्द्रवञ्च तथा समवायस्पैकत्वेऽप्याश्रयाणां नानात्वादुपचारेण नानात्वव्यवहारो भविष्यतीति, इदं निर्मूलमेव, व्यङ्गयस्याऽऽधेयनियमादाश्रय एवासिद्धेः कुतस्तद्वयङ्गयो व्यञ्जको वाऽऽधेयोऽर्थः? कुतो वाऽऽश्रयाणां वैचित्र्यम्? समवायैकत्वे षट्पदार्थनिवृत्तेः सुभावितत्वात्, अजलचन्द्रवदेकत्वात्, समवायस्य भावस्य च जलचन्द्रेण साधाभावात्कुतो नानात्वोपचारः? छाया