SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १३४ द्वादशारनयचक्रे ननु लक्षणभेदहेतुत्वमपि न, लघुत्वप्रकाशाप्रवृत्तिशीलत्वान्यपि ह्येकम्, अपृथग्भूतसमवस्थानस्वरूपलक्षणभेदात्मकत्वात्, भिन्नलक्षणतमस्त्ववत् । न, अपृथग्भूतसमवस्थानस्वरूपेत्यायसिद्धम्, तत्कथमिति चेत् — सुखं मोहागुरोरन्यत्, लघुत्वात्, लोष्टादिवार्कतूलः, दुःखात् प्रवृत्तिशीलादन्यत्, अप्रवृत्तिशीलत्वात्, वायोरिवाकाशम्, दुःखमोहाभ्यामप्रकाशकाभ्यामन्यत् प्रकाशकत्वात् घटादिव प्रदीपः, दुःखं मोहादचलादन्यत् चलत्वात् पर्वतादिव वायुः, सुखादप्रवृत्तिशीलादन्यत्, प्रवृत्तिशीलत्वात्, आकाशादिव वायुः, मोह: सुखदुःखाभ्यामगुरुभ्यामन्यो गुरुत्वात्, अर्कतूलादिव लोहपिण्डः । दुःखं सुखात् प्रकाशकादन्यत्, अप्रकाशकत्वात्, प्रदीपादिव घटः, अतश्व सुखत्वाद्दुःखत्वान्मोहत्वादित्यादयोऽप्यन्यत्वहेतवः स्युः शरीरेन्द्रियगत आत्मैकदेशस्तदेकदेशभूताभ्यां रजस्तमोभ्यामन्यः सुखत्वालोष्टवत्, लोष्टादिर्हि सुखदुःखमोहैः पुरुषभोग्यैरन्योऽन्यतोऽन्यैरुपेतः, एवं दुःखमोहौ । अत्र ब्रूमः सर्वेऽप्येतेऽन्यत्वहेतवोऽप्रसिद्धसाध्यधर्मसमन्वयव्यावृत्तयः, पृथग्भूतसुखायात्मकसत्त्वादिलघ्वादितूललोष्टादिवस्त्वभावात्, सर्वस्य त्रैगुण्याव्यतिरेकाच्च न चैषां विपक्षाद्वयावृत्तिरस्ति, तूललोष्टादेरेव विपक्षत्वेन व्यवस्थानात् साध्यसाधनोभयानन्वयो धर्म्यसिद्धिश्व, साध्याव्यावृत्त्यादिदोषश्च स्वत एवानुमाननिराकृतस्य पक्षीकरणार्थाश्चैते ।
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy