________________
द्वादशारनयचक्रे
एव मे प्रयासः, अनेकात्मकैककारणमयत्वं त्वं प्रतिपादयितव्य इति, एष प्रतिपादितोऽसि एवन्तु न वेत्थ अविभक्तप्रविभागापत्तिः कल्पनेति ।
१२०
अविभक्तानेकार्थकारणमेवेदं विभक्तवृत्ति पृथिव्यादि न विभक्तसुखाद्यनेकार्थैकैककारणपूर्वकम् उक्तवत् यथा मयूरग्रीवादि वृत्तिः दध्यादिवृत्तिः तदात्माविभक्तपूर्वा, वक्ष्यमाणवत् ।
प्रकाशप्रवृत्तिनियमानान्तु भिन्नात्मकतायां सत्त्वं न प्रकाशेत, अप्रवृत्तत्वात् पुरुषवत्, त्वयैव हि प्रधानवस्थायामप्रवृत्तसमा गुणा इतीष्यन्ते, पूर्ववद्वोत्तरकालमपि, अनग्निप्रकाशवद्वा ।
ननु प्रकाशात्मकत्वादेवाप्रवृत्तत्वमसिद्धं सत्त्वस्य, रजसा प्रवर्त्यत्वात् अग्नेरिव सन्धुक्षणेन, अत्रोच्यते ययप्रवृत्तोऽग्निस्तदाऽसन्नेवाप्रकाशत्वमेव गमयति, प्रकाशात्मप्रवृत्त्यभावात् एवं हि कारणे कार्यस्य सत्त्वं स्यात् यदि तत् प्रकाशात्मना वर्त्तते प्रवर्त्तते, अनारम्भात् ।
न, प्रकर्षेणाप्रवृत्तत्वात् प्रकृष्टवृत्तेर्विवक्षितत्वात्, सा च रजोऽनुग्रहात्तद्रूपव्यक्तिः बीजस्येवाबाद्यनुगृहीतस्योच्छूनाङ्कुरत्वादिवृत्तिरिति न, रजसोऽपि सत्त्ववदपरिसमाप्तरूपत्वात्, रजः प्रवृत्तिलभ्यप्रकाशात्मरूपव्यक्तिसत्त्ववत्, रजसोऽपि स्वरूपव्यक्तिरसमाप्त रूपैव सत्त्वात् प्रतिलभ्यत्वात्, तथाकाशनं हि प्रवर्त्तकत्वेनाभिव्यक्तिरिति प्रकाशात्मकसत्त्वानुग्रहाद्भवति, कथमन्यप्रकाशने प्रवर्त्तेत? |
अप्रकाशात्मकञ्च