________________
तृतीयो विध्युभयारः
११३
यत्स्वरूपाव्यतिरिक्तलक्षणा अवस्थास्त्वया विना भेदेनोच्यन्ते पुरुष एवावस्था इति, नावस्था एव पुरुष इति तत एव तस्य ताभ्यो नानात्वं तासाञ्च त्वद्वचनादेव सिद्ध्यति, यथोद्र्ध्वग्रीवादिलक्षणो घटो घट एवार्ध्वग्रीवादय इति, न त्वभेदेऽवधारणभेदोsस्ति, यथा घट स्वात्मैव घटो घट एव घटस्वात्मेति, स पुरुषोऽप्येवञ्च सति पुरुषान्तरेणाभिव्याप्तः, ततश्वानवस्थितैकत्वतत्त्वप्रतिष्ठः पुरुषान्तरातिदेश्यश्व, पुरुषस्वात्मत्वादवस्थावत् ।
वाऽचेतनव्यक्तमूर्त्ता
अस्यां
प्रत्यक्षार्थेदंविषयतायां
नित्यादिरूपार्थपुरुषपरमार्थता प्राप्नोति ।
अवस्थास्त्वन्यत्वानेकत्व एव पुरुषः, अवस्थास्वात्मत्वात् पुरुषस्य, ततस्तासामन्यत्वेनानेकः, त्वदुक्तेरेवावश्यमन्यास्ताः पुरुषात्ताभ्यश्च सोऽन्यस्तद्रूपापत्त्यनिष्टत्वात् अवस्थान्तरवत् ।
यतोsवस्थास्वात्मत्वमस्य नेष्यते, पुरुषातिदेशात्तु पुनरन्यत्वं न सम्भवत्येव, स्वपरविषयकृतभेदद्वारान्यत्वासम्भवात्, कस्यचित्कथञ्चित्ततोऽन्यस्यानुपपत्तावपि चतस्रोऽवस्थाः त्वदुक्तिवदेव येन केनचिदुपपत्तिप्रकारेण सम्भावनापादितान्यत्वाः पृथक् पृथक् स्युः पुरुषश्च ।
अथ पुरुषलक्षणापि विनिद्रावस्था न पुरुषः पुरुषोऽपि न तर्हि, पुरुषोऽस्तु, पुरुषलक्षणत्वाद्विनिद्रावस्थावदेवं शेषा अपीति पुरुषाभाव एव, कुतोऽस्य सर्वगतता ?