________________
३. निःक्षेपपरिच्छेदः । नाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपनेवंभूताभासः, यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशन्दवाच्यं, घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशुन्यत्वात् , पटवदिति । अर्थाभिधायी शब्दप्रतिक्षेपी अर्थनयाभासः । शब्दाभिधाय्यर्थप्रतिक्षेपी शब्दनयाभासः। अर्पितमभिदधानोऽनर्पितं प्रतिक्षिपनर्पितनयाभासः । अनर्पितमाभदधदर्पितं प्रतिक्षिपन्ननर्पितामासः । लोकव्यवहारमभ्युपगम्य तत्वप्रतिक्षेपी व्यवहाराभासः । तत्त्वमभ्युप- 5 गम्य व्यवहारप्रतिक्षेपी निश्चयामासः। ज्ञानमभ्युपगम्य क्रियाप्रतिक्षेपी ज्ञाननयामासः। क्रियामभ्युपगम्य ज्ञानप्रतिक्षेपी क्रियानयामास इति । इति महामहोपाध्यायश्रीकल्याणविजयगणिशिष्यमुख्यपण्डितश्रीलामविजयगणिशिष्यावतंसपण्डितश्रीजीतविजयगणिसतीर्थ्यपण्डितश्रीनयविजयगणिशिष्येण पण्डितश्रीपनविजयगणिसहोदरेण पण्डितयशोविजयगणिना
विरचितायां जैनतर्कभाषायां नयपरिच्छेदः सम्पूर्णः ।
३. निक्षेपपरिच्छेदः ।
[ १. नामादिनिःक्षेपनिरूपणम् । ] ६१. नया निरूपिताः। अथ निक्षेपा निरूप्यन्ते। प्रकरणादिवशेनाप्रतिपत्या(या)दिव्यवच्छेदकयथास्थानविनियोगाय शब्दार्थरचनाविशेषा निःक्षेपाः । मङ्गलादि- 15 • पदार्थनिःक्षेपानाममङ्गलादिविनियोगोपपत्तेश्च निःक्षेपाणां फलवत्त्वम् , तदुक्तम्-"अप्रस्तुतार्थापाकरणात् प्रस्तुतार्थव्याकरणाच निःक्षेपः फलवान्” [ लघी० स्ववि० ७. २ ] इति । ते च सामान्यतश्चतुर्धा-नामस्थापनाद्रव्यभावभेदात् ।
६२. तत्र प्रकृतार्थनिरपेक्षा नामार्थान्यतरपरिणति मनिःक्षेपः। यथा सङ्केतितमात्रेणान्यार्थस्थितेनेन्द्रादिशब्देन वाच्यस्य गोपालदारकस्य शक्रादिपर्यायशब्दानभि- 20 धेया परिणतिरियमेव वा यथान्यत्रावर्तमानेन यदृच्छाप्रवृत्तेन डित्थडवित्थादिशन्देन वाच्या । तत्त्वतोऽर्थनिष्ठा उपचारतः शब्दनिष्ठा च । मेर्वादिनामापेक्षया यावद्रव्यमाविनी, देवदत्तादिनामापेक्षया चायावद्रव्यभाविनी, यथा वा पुस्तकपत्रचित्रादिलिखिता वस्त्वभिधानभूतेन्द्रादिवर्णावली । ___६३. यत्तु वस्तु तदर्थवियुक्तं तदभिप्रायेण स्थाप्यते चित्रादौ तादृशाकारम् , 25 अक्षादौ च निराकारम् , चित्राद्यपेक्षयेत्वरं नन्दीश्वरचैत्यप्रतिमाद्यपेक्षया च यावत्कथिकं स स्थापनानिःक्षेपः, यथा जिनप्रतिमा स्थापनाजिनः, यथा चेन्द्रप्रतिमा स्थापनेन्द्रः।
६४. भूतस्य भाविनो वा भावस कारणं यनिक्षिप्यते स द्रव्यनिःक्षेपः, यथा