________________
जैनतर्कमाषा। ६९. कः पुनरत्र बहुविषयो नयः को वाऽल्पविषयः १, इति चेदुच्यते-सन्मात्र. गोचरात्संग्रहात्तावन्नैगमो बहुविषयो भावाभावभूमिकत्वात् । सद्विशेषप्रकाशकाब्यवहारतः संग्रहः समस्तसत्समूहोपदर्शकत्वाद्बहुविषयः । वर्तमानविषयावलम्बिन ऋजुत्रा
कालत्रितयवर्त्यर्थजातावलम्बी व्यवहारो बहुविषयः । कालादिभेदेन भिन्नार्थोपदेशका5 च्छब्दात्तद्विपरीतवेदक ऋजुसूत्रो बहुविषयः । न केवलं कालादिभेदेनैवर्जुसूत्रादल्पार्थता
शब्दस्य, किन्तु भावघटस्यापि सद्भावासद्भावादिनापितस्य स्याद् घटः स्यादघट इत्यादिभङ्गपरिकरितस्य तेनाभ्युपगमात् तस्य सूत्राद् विशेषिततरत्वोपदेशात् । यद्यपीदृशसम्पूर्णसप्तभङ्गपरिकरितं वस्तु स्याद्वादिन एव सङ्गिरन्ते, तथापि ऋजुसूत्रकृतैतद
भ्युपगमापेक्षयाऽन्यतरभङ्गेन विशेषितप्रतिपत्तिरत्रादुष्टेत्यदोष इति वदन्ति । प्रतिपर्याय. 10 शब्दमर्थभेदमभीप्सतःसमभिरूढाच्छब्दस्तद्विषया(द्विपर्यया)नुयायित्वाद्बहुविषयः। प्रति. क्रियं विभिन्नमर्थ प्रतिजानानादेवम्भूतात्समभिरूढः तदन्यथार्थस्थापकत्वाद्बहुविषयः ।
१०. नयवाक्यमपि स्वविषये प्रवर्तमानं विधिप्रतिषेधाभ्यां सप्तमङ्गीमनुगच्छति, विकलादेशत्वात् , परमेतद्वाक्यस्य प्रमाणवाक्याद्विशेष इति द्रष्टव्यम् ।
[२. नयामासानां निरूपणम् ।] 15६११. अथ नयामासाः। तत्र द्रव्यमात्रग्राही पर्यायप्रतिक्षेपी द्रव्यार्थिकामासः ।
पर्यायमात्रग्राही द्रव्यप्रतिक्षेपी पर्यायार्थिकामासः। धर्मिधर्मादीनामे(मै)कान्तिकपार्थक्याभिसन्धिर्नंगमाभासः, यथा नैयायिकवैशेषिकदर्शनम्। सत्ताऽद्वैतं स्वीकुर्वाणः सकलविशेषानिराचक्षाणः संग्रहामासः यथाऽखिलान्यद्वैतवादिदर्शनानि सांख्यदर्शनं च । अपार
मार्थिकद्रव्यपर्यायविभागाभिप्रायो व्यवहारामासः, यथा चार्वाकदर्शनम्, चार्वाको हि 20 प्रमाणप्रतिपन्नं जीवद्रव्यपर्यायादिप्रविभागं कल्पनारोपितत्वेनापहतेऽविचारितरमणीयं
भूतचतुष्टयप्रविभागमानं तु स्थूललोकव्यवहारानुयायितया समर्थयत इति । वर्तमानपर्यायाभ्युपगन्ता सर्वथा द्रव्यापलापी ऋजुसूत्रामासः, यथा ताथागतं मतं । कोलादिभेदेनार्थभेदमेवाभ्युपगच्छन् शब्दाभासः, यथा बभूव भवति भविष्यति सुमेरुरित्यादयः
शब्दा भिन्नमेवार्थमभिदधति, भिन्नकालशब्दत्वात्तादृसिद्धान्यशब्दवदिति । पर्याय25 ध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणः समभिरूढाभासः, यथा इन्द्रः शक्रः पुरन्दर
इत्यादयः शब्दा भिन्नाभिधेया एव, भिन्नशब्दत्वात् , करिकुरङ्गशब्दवदिति । क्रिया
1. The idea is that the non-Jaina systems of philosophy are also partly true, but they are false inasmuch as they overlook each other Cf. Gommatasara, Karmakanda,895.
परसमयाणं वयण मिच्छं खलु होइ सम्बहा वयणा । जेणाणं पुण वयगं सम्नं खु कहंचि वयणावो ।।