SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ जैनतर्कभाषा । पर्याययोर्मुख्यामुख्यतया विवक्षणम् । अत्र चैतन्याख्यस्य व्यञ्जनपर्यायस्य विशेष्यत्वेन मुख्यत्वात् , सवाख्यस्य तु विशेषणत्वेनामुख्यत्वात्। प्रवृत्तिनिवृत्तिनिबन्धनार्थक्रियाकारित्वोपलक्षितो व्यञ्जनपर्यायः। भूतभविष्यत्वसंस्पर्शरहितं वर्तमानकालावच्छिन्नं वस्तुस्वरूपं चार्थपर्यायः । वस्तु पर्यायवद्र्व्यमिति द्रव्ययोर्मुख्यामुख्यतया विवक्षणम्, पर्यायवद्रव्याख्यस्य धर्मिणो विशेष्यत्वेन प्राधान्यात्, वस्त्वाख्यस्य विशेषणत्वेन गौण. 5 त्वात् । क्षणमेकं सुखी विषयासक्तजीव इति पर्यायव्ययोर्मुख्यामुख्यतया विवक्षणम्, अत्र विषयासक्तजीवाख्यस्य धर्मिणो विशेष्यत्वेन मुख्यत्वात् , सुखलक्षणस्य तु धर्मस्य द्विशेषणत्वेनामुख्यत्वात् । न चैवं द्रव्यपर्यायामयावगाहित्वेन नैगमस्य प्रामाण्यप्रसङ्गः, प्राधान्येन तदुभयावगाहिन एव ज्ञानस्य प्रमाणत्वात् । ६३. सामान्यमात्रग्राही परामर्शः सहा-स द्वेधा, परोऽपरश्च । तत्राशेषविशेषे10 वौदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परः सङ्ग्रहः । यथा विश्वमेकं सदविशेषादिति । द्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तद्भेदेषु गजनिमीलिकामवलम्बमानः पुनरपरसग्रहः । सङ्ग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनाभि सन्धिना क्रियते स व्यवहारः । यथा यत् सत् तद् द्रव्यं पर्यायो वा । यद् द्रव्यं तज्जीवादि पद्विधम् । यः पर्यायः स द्विविधः क्रमभावी सहभावी चेत्यादि। 15 ४. ऋजु वर्तमानक्षणस्थायिपर्यायमात्रं प्राधान्यतः सूचयन्नभिप्राय ऋजुसूत्रः। यथा सुखविवर्तः सम्प्रत्यस्ति । अत्र हि क्षणस्थायि सुखाख्यं पर्यायमा प्राधान्येन प्रद. यते, तदधिकरणभूतं पुनरात्मद्रव्यं गौणतया नार्ण्यत इति । ५. कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः । कालकारकलिङ्गसङ्ख्यापुरुषोपसर्गाः कालादयः । तत्र बभूव भवति भविष्यति सुमेरुरित्यत्रातीतादिकालमेदेन 20 सुमेरोर्मेदप्रतिपत्तिः, करोति क्रियते कुम्भ इत्यादी कारकभेदेन, तटस्तटी तटमित्यादौ लिङ्गभेदेन, दाराः कलत्रमित्यादौ संख्याभेदेन, यास्यसि त्वम् , यास्यति भवानित्यादौ पुरुषभेदेन, सन्तिष्ठते अवतिष्ठते इत्यादावुपसर्गभेदेन । ६६. पर्यायशन्देषु निरुक्तिभेदेन भिन्नमर्थ समभिरोहन् समभिरूढः । शब्दनयो, हि पर्यायभेदेऽप्यर्थामेदमभिप्रैति, समभिरूढस्तु पर्यायभेदे भिन्नाननभिमन्यते । 1. This suggests why synonyms are called paryāyaväci in Sanskrit. It means that no two words carry exactly the same meaning; they only indicate the different modes (paryayas) of an object. Thus the word 'paryāya' of Jaina philosophy has been used in its technical sense, in the word 'paryayavaci'
SR No.022374
Book TitleJaina Tarka Bhasha
Original Sutra AuthorN/A
AuthorDayanand Bhargava
PublisherMotilal Barasidas Pvt Ltd
Publication Year1973
Total Pages198
LanguageEnglish, Sanskrit
ClassificationBook_English
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy