________________
१. प्रमाणपरिच्छेदः ।
भिरेकत्रैकसम्बन्धाघटनात् । तैः क्रियमाणस्योपकारस्य च प्रतिनियतरूपस्यानेकत्वात्, अनेकैरुपकारिभिः क्रियमाणस्योपकारस्यैकस्य विरोधात् । गुणिदेशस्य च प्रतिगुणं मेदात्, तदभेदे भिन्नार्थगुणानामपि गुणिदेशा भेदप्रसङ्गात् । संसर्गस्य च प्रतिसंसर्गि भेदात्, तदभेदे संसर्गिभेदविरोधात् । शब्दस्य प्रतिविषयं नानात्वात्, सर्वगुणानामेकशब्दवाच्यतायां सर्वार्थानामेकशब्दवाच्यतापत्तेरिति कालादिभिर्भिन्नात्मनामभेदोप- 5 चारः क्रियते । एवं भेदवृत्तितदुपचारावपि वाच्याविति । पर्यवसितं परोक्षम् । ततश्र निरूपितः प्रमाणपदार्थः ।
इति महामहोपाध्याय श्रीकल्याणविजय गणि शिष्यमुख्य पण्डितश्रीलाभविजयगणिशिष्यावतंसपण्डितश्रीजीतविजयगणिसतीर्थ्यपण्डित श्रीनयविजयगणिशिष्येण पण्डित श्रीपद्मविजयगणिसहोदरेण पण्डितयशोविजयगणिना कृदायां जैनतर्कभाषायां प्रमाणपरिच्छेदः सम्पूर्णः ।
~sesete
२१
२. नयपरिच्छेदः । [ १. नयानां स्वरूपनिरूपणम् । ]
११. प्रमाणान्युक्तानि । अथ नया उच्यन्ते । प्रमाणपरिच्छिन्नस्यानन्तधर्मात्मकस्य वस्तुन एकदेशग्राहिणस्तदितरांशाप्रतिक्षेपिणोऽध्यवसायविशेषा नयाः । प्रमाणै- 15 कदेशत्वात् तेषां ततो भेदः । यथा हि समुद्रैकदेशो न समुद्रो नाप्यसमुद्रस्तथा नया अपि न प्रमाणं न वाऽप्रमाणमिति ते च द्विधा - द्रव्यार्थिकपर्यायार्थिकभेदात् । तत्र प्राधान्येन द्रव्यमात्रग्राही द्रव्यार्थिकः । प्राधान्येन पर्याय मात्रग्राही पर्यायार्थिकः । तत्र द्रव्यार्थिकस्त्रिधा नैगमसङ्ग्रह व्यवहारभेदात् । पर्यायार्थिकश्चतुर्धा ऋजुत्रशब्द समभिरूढैवंभूतभेदात् । ऋजुसूत्रो द्रव्यार्थिकस्यैव भेद इति तु जिनभद्रगणिक्षमाश्रमणाः । 20
१२. तत्र सामान्यविशेषाद्यनेकधर्मोपनयनपरोऽध्यवसायो नैगमः, यथा पर्याययोर्द्रव्ययोः पर्यायद्रव्ययोश्च मुख्या मुख्यरूपतया विवक्षणपरः । अत्र सञ्चैतन्यमात्मनीति
1. Cf. Tattvārthaślokavārtika, 1.6.21,5
माप्रमाणं प्रमाणं वा नयो ज्ञानात्मको मतः स्यात्प्रमाणं कदेशस्तु सर्वथाप्यविशेषतः ।। नायं वस्तु न चावस्तु बस्त्वंशः कम्बते ।
नासमुद्रः समुद्रो वा सनुद्रांशो यथोच्यते ।।
2. Cf. Viśesāvaśyakabhāsyabrhadvrtti, Gāthās 75, 77,2262
10