________________
१. प्रमाणपरिच्छेदः। नीयं सुधीभिः । इत्थं च 'पक्कान्येतानि सहकारफलानि एकशाखाप्रभवत्वाद् उपयुक्तसहकारफलवदित्यादौ बाधितविषये, मूर्योऽयं देवदत्तः तत्पुत्रत्वात् इतरतत्पुत्रवदित्यादौ सत्प्रतिपक्षे चातिप्रसङ्गवारणाय अबाधितविषयत्वासत्प्रतिपक्षत्वसहितं प्रागुक्त. रूपत्रयमादाय पाश्चरूप्यं हेतुलक्षणम्' इति नैयायिकमतमप्यपास्तम् ; उदेष्यति शकटमित्यादौ पक्षधर्मत्वस्यैवासिद्धेः, स श्यामः तत्पुत्रत्वादित्यत्र हेत्वाभासेऽपि पाश्चरूप्य- 5 सत्त्वाच, निशितान्यथानुपपत्तेरेव सर्वत्र हेतुलक्षणत्वौचित्यात् ।
[ १७. साध्यस्वरूपचर्चा । ] ६३८. ननु हेतुना साध्यमनुमातव्यम् । तत्र किं लक्षणं साध्यमिति चेत् ; उच्यतेअप्रतीतमनिराकृतमभीप्सितं च साध्यम् । शङ्कितविपरीतानध्यवसितवस्तूनां साध्यताप्रतिपत्त्यर्थमप्रतीतमिति विशेषणम् । प्रत्यक्षादिविरुद्धस्य साध्यत्वं मा प्रसाङ्क्षीदित्यनि- 10 राकृतग्रहणम् । अनभिमतस्यासाध्यत्वप्रतिपत्तयेऽमीप्सितग्रहणम् ।
.६३९. कथायां शक्तिस्यैव साध्यस्य साधनं युक्तमिति कश्चित् । तत्र विपर्यस्ताव्युत्पभयोरपि परपक्षदिदृक्षादिना कथायामुपसर्पणसम्भवेन संशयनिरासार्थमिव विपर्ययानध्यवसायनिरासार्थमपि प्रयोगसम्भवात् , पित्रादेविपर्यस्ताव्युत्पन्नपुत्रादिशिक्षाप्रदानदर्शनाच्च । न वेदेवं जिगीषुकथायामनुमानप्रयोग एव न स्यात् तस्य साभिमानत्वेन 15 विपर्यस्तत्वात् ।
६४०. अनिराकृतमिति विशेषणं वादिप्रतिवाद्युभयापेक्षया, द्वयोः प्रमाणेनाबाधितस्य कथायां साध्यत्वात् । अभीप्सितमिति तु वाद्यपेक्षयैव, वक्तुरेव स्वाभिप्रेतार्थप्रतिपादनायेच्छासम्भवात् । ततश्च परार्थाश्चक्षुरादय इत्यादौ पारार्थ्यमात्राभिधानेऽप्यात्मार्थत्वमेव सायं(मेव साध्यं) सिध्यति । अन्यथा संहतपरार्थत्वेन बौद्धैश्चक्षु. 20 रादीनामभ्युपगमात् साधनवैफल्या]दित्यनन्वयादिदोषदुष्टमेतत्सालयसाधनमिति वद. न्ति । स्वार्थानुमानावसरेऽपि परार्थानुमानोपयोग्यभिधानम् , परार्थस्य स्वार्थपुर:सरत्वेनानतिमेदज्ञापनार्थम् ।
६४१. व्याप्तिग्रहणसमयापेक्षया साध्यं धर्म एव, अन्यथा तदनुपपत्तेः, आनुमानिकप्रतिपयवसरापेक्षया तु पक्षापरपर्यायस्तद्विशिष्टः प्रसिद्धो धर्मी । इत्थं च स्वार्थानुमा- 25 नस्य त्रीण्यङ्गानि धर्मी साध्यं साधनं च । तत्र साधनं गमकत्वेनाङ्गम् , साध्यं तु
I. Syadvadaratnakara, p. 538
ततश्च परार्थाश्चक्षुरादय इत्यादी पारायं मात्राभिधानेऽप्यात्मार्थत्वमेव साध्यस्य प्रसिध्यति । तद्धीच्या व्याप्त साडल्यस्य बौद्ध प्रति साध्यमेव । आत्मा हि साङख्येन साधयितुमुपक्रान्तस्ततोऽसावेव साध्यः । अन्यथा साधनस्य वैफल्यापत्तेः संहतपरार्थत्वेन बौद्धश्चक्षुरादीनामुपगमात् ।