________________
जैनतर्कभाषा ।
( १५. अनुमानं द्वेधा विभज्य स्वार्थानुमानस्य लक्षणम् । ]
१३४. साधनात्साध्यविज्ञानम् - अनुमानम् । तद् द्विविधं स्वार्थ परार्थ च । तत्र हेतुग्रहण-सम्बन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थम्, यथा गृहीतधूमस्य स्मृतव्याप्तिकस्य 'पर्वतो वह्निमान्' इति ज्ञानम् । अत्र हेतुग्रहण सम्बन्धस्मरणयोः समुदितयोरेव कारण5 स्वमवसेयम्, अन्यथा विस्मृताप्रतिपन्न सम्बन्धस्यागृहीतलिङ्गकस्य च कस्यचिदनुमानोत्पादप्रसङ्गात् ।
१२
[ १६. हेतुस्वरूपच च । ]
६३५. निश्चितान्यथानुपपत्येकलक्षणो हेतुः, न तु त्रिलक्षणकादिः । तथाहित्रिलक्षण एव हेतुरिति बौद्धाः । पक्षधर्मत्वाभावेऽसिद्धत्वव्यवच्छेदस्य, सपक्ष एव सच्चा10 भावे च विरुद्धत्वव्युदासस्य, विपक्षेऽसच्चनियमाभावे चानैकान्तिकत्वनिषेधस्यासम्भवेनानुमित्यप्रतिरोधानुपपत्तेरिति; तन; पक्षधर्मत्वाभावेऽपि उदेष्यति शकटं कृतिकोदयाद्, उपरि सविता भूमेरालोकवस्त्राद् अस्ति नभश्चन्द्रो जलचन्द्रादित्याद्यनुमानदर्शनात् । न चात्रापि 'कालाकाशादिकं भविष्यच्छकटोदयादिमत् कत्तिकोदयादिमस्वात्' इत्येवं पक्षधर्मत्वोपपत्तिरिति वाच्यम् ; अननुभूयमानधर्मिविषयत्वेनेत्थं पक्षधर्म15 त्वोपपादने जगद्धर्म्यपेक्षया काककायेन प्रासादधावल्यस्यापि साधनोपपत्तेः ।
९३६. ननु यद्येवं पक्षधर्मताऽनुमितौ नाङ्गं तदा कथं तत्र पक्षमाननियम इति चेत्; क्वचिदन्यथाऽनुपपत्यवच्छेदकतया ग्रहणात् पक्षभानं यथा नमश्चन्द्रास्तित्वं विना जलचन्द्रो ऽनुपपन्न इत्यत्र क्वचिच्च हेतुग्रहणाधिकरणतया यथा पर्वतो वह्निमान् धूमवत्त्वादित्यत्र धूमस्य पर्वते ग्रहणाद्वह्वेरपि तत्र भानमिति । व्याप्तिग्रहवेलायां तु 20 पर्वतस्य सर्वत्रानुवृत्यभावेन न ग्रह इति ।
$ ३७. यत्तु अन्तर्व्याप्या पक्षीयसाध्यसाधनसम्बन्धग्रहात् पक्षसाध्यसंसर्गमानम्, तदुक्तम् - "पक्षीकृत एव विषये साधनस्य साध्येन व्यासिरन्तर्व्याप्तिः, अन्यत्र तु बहिर्व्याप्तिः” (प्र.न. ३.३८) इति; तन; अन्तर्व्याप्या हेतोः साध्यप्रत्यायनशक्तौ सत्यां बहिर्व्याप्तेरुद्भावनव्यर्थत्वप्रतिपादनेन तस्याः स्वरूपप्रयुक्त (क्काs) व्यभिचारलक्षण25 त्वस्य, बहिर्व्याप्तेश्च सहचारमात्रत्वस्य लाभात, सार्वत्रिक्या व्याप्तेर्विषय मेदमात्रेण भेदस्य दुर्वचत्वात् । न चेदेवं तदान्तर्व्याप्तिग्रहकाल एष एव (काल एव ) पक्ष साध्यसंसर्गभानादनुमानवैक (फ) ल्यापत्तिः विना पर्वतोवह्निमानित्युद्देश्यप्रतीतिमिति यथातन्त्रं भाव
1. Though this view has been accepted by a school of Nyāya, Vaisesika and Sankhya also, yet since the Buddhists laid special emphasis on this, it has been attributed to them. See Dr. Kothia, D.L, Jaina tarkaśastra mem anumāna vicāra, p. 191