________________
जैनतर्कभाषा। या च घटायुपयोगोपरमे सक्येयमसङ्खथेयं वा कालं वासनाऽभ्युपगम्यते, या च 'तदेव' इतिलक्षणा स्मृतिः सा मत्यंशरूपा धारणा न भवति मत्युपयोगस्य प्रागेवोपरतत्वात् , कालान्तरे जायमानोपयोगेऽप्यन्वयमुख्यां धारणायां स्मृत्यन्तर्भावादिति चेत्, न;
अपायप्रवृत्त्यनन्तरं क्वचिदन्तर्मुहूतं यावदपायधाराप्रवृत्तिदर्शनात् अविच्युतेः, पूर्वापर5 दर्शनानुसन्धानस्य तदेवेदम्' इति स्मृत्याख्यस्य प्रागापायपरिणामस्य. तदाधायकसंस्कारलक्षणाया वासनायाश्च अपायाभ्यधिकत्वात् ।
६१६. नन्वविच्युतिस्मृतिलक्षणौ ज्ञानमेदौ गृहीतग्राहित्वान्न प्रमाणम् ; संस्कारश्च किं स्मृतिज्ञानावरणक्षयोपशमो वा, तज्ज्ञानजननशक्तिर्वा, तद्वस्तुविकल्पों वेति त्रयी
गतिः । तत्र-आद्यपक्षद्वयमयुक्तम् ; ज्ञानरूपत्वाभावात् तद्भेदानां चेह विचार्यत्वात् । 10 तृतीयपक्षोऽप्ययुक्त एव; सङ्खयेयमसङ्खयेयं वा कालं वासनाया इष्टत्वात् , एतावन्तं च
कालं वस्तुविकल्पायोगादिति न कापि धारणा घटत इति चेत्, नस्पष्टस्पष्टतरस्पष्टतमभिन्नधर्मकवासनाजनकत्वेन अन्यान्यवस्तुग्राहित्वादविच्युतेः प्रागननुभूतवस्त्वेकस्वग्राहित्वाच स्मृतेः अगृहीतग्राहित्वात् , स्मृतिज्ञानावरणकर्मक्षयोपशमरूपायास्तद्विज्ञान
जननशक्तिरूपायाश्च वासनायाः स्वयमज्ञानरूपत्वेऽपि कारणे कार्योपचारेण ज्ञानभेदा15 भिधानाविरोधादिति ।। ___६१७. एते चावग्रहादयो नोत्क्रमव्यतिक्रमाभ्यां न्यूनन्वेन चोत्पद्यन्ते, ज्ञेयस्येस्थमेव ज्ञानजननस्वाभाव्यात् । कचिदभ्यस्तेऽपायमात्रस्य दृढवासने विषये स्मृति. मात्रस्य चोपलक्षणेऽप्युत्पलपत्रशतव्यतिभेद इव सौक्षम्यादवग्रहादिक्रमानुपलक्षणात् ।
तदेवम् अर्थावग्रहादयो मनइन्द्रियैः षोढा भिद्यमाना व्यञ्जनावग्रह चतुर्मेदैः सहॉष्टाविं20 शतिर्मतिभेदा भवन्ति । अथवा बहु-बहुविध-क्षिप्रा ऽनिश्रित-निश्चित-ध्रुवैः सप्रतिपक्षा
दशभिर्भदैर्भिन्नानामेतेषां षट्त्रिंशदधिकानि त्रीणि शतानि भवन्ति । बह्वादयश्च भेदा विषयापेक्षाः; तथाहि-कश्चित् नानाशब्दसमूहमाकर्णितं बहुं जानाति-'एतावन्तोत्र शङ्खशब्दा एतावन्तश्च पटहादिशब्दाः' इति पृथग्मिन्नजातीयं क्षयोपशमविशेषात् परिच्छिनत्तीत्यर्थः । अन्यस्त्वल्पक्षयोपशमत्वात् तत्समानदेशोऽप्यबहुम् । अपरस्तु क्षयोप25 शमवैचिच्यात् बहुविधम् , एकैकस्यापि शङ्खादिशब्दस्य स्निग्धत्वादिबहुधमोन्वितत्वेना
प्याकलनात् । परस्त्वबहुविधम् , स्निग्धत्वादिस्वल्पधर्मान्वितत्वेनाकलनात् । अन्यस्तु क्षिप्रम्, शीघ्रमेव परिच्छेदात् । इतरस्त्वक्षिप्रम् चिरविमर्शनाकलनात् । परस्त्वनिश्रितम् , लिङ्गं विना स्वरूपत एव परिच्छेदात् । अपरस्तु निश्रितम् , लिङ्गनिश्रयाऽऽकलनात् ।
[कश्चित्तु निश्चितम् , विरुद्धधर्मानालिङ्गितत्वेनावगतः । इतरस्त्वनिश्चितम् , विरुद्धधर्मा30 किततयावगमात् । ] अन्यो ध्रुवम् , बहादिरूपेणावगतस्य सर्वदैव तथा बोधात् । अन्य
स्त्वध्रुवम् , कदाचिद्बह्वादिरूपेण कदाचित्त्वबहादिरूपेणावगमादिति । उक्ता मतिभेदाः।