________________
१. प्रमाणपरिच्छेदः। न्यग्राहि, अर्थावग्रहस्त्वितरव्यावृत्तवस्तुस्वरूपग्राहीति न सूत्रानुपपत्तिः'-इति; तदसत यत आलोचनं व्यञ्जनावग्रहात् पूर्व स्यात् , पश्चाद्वा, स एव वा ? नायः; अर्थव्यञ्जनसम्बन्ध विना तदयोगात् । न द्वितीयः, व्यञ्जनावग्रहान्त्यसमयेविग्रहस्यैवोत्पादादालोचनानवकाशात् । न तृतीयः; व्यञ्जनावग्रहस्यैव नामान्तरकरणात् , तस्य चार्थशून्यत्वेनालोचनानुपपत्तेः । किञ्च, आलोचनेनेहां विना झटित्येवार्थावग्रहः कथं 5 जन्यताम् १ युगपञ्चेहावग्रहो पृथगसङ्खयेयसमयमानौ कथं घटेताम् १ इति विचारणीयम् । नन्ववाहेऽपि क्षिप्रेतरादिमेदप्रदर्शनादसलयसमयमानत्वम् , विशेषविषयत्वं चाविरुद्धमिति चेत् न तत्त्वतस्तेषामपायमेदत्वात् , कारणे कार्योपचारमाश्रित्यावग्रहमेदत्वप्रतिपादनाव, अविशेषविषये विशेषविषयत्वस्यावास्तवत्वात् ।
६११. अथवा अवग्रहो द्विविधः-नैश्चयिका, व्यावहारिकश्च । आधः सामा- 10 न्यमात्रग्राही, द्वितीयच विशेषविषयः तदुत्तरमुत्तरोत्तरधर्माकासारूपेहाप्रवृतेः, अन्यथा अवग्रहं विनेहानुत्थानप्रसङ्गात् अत्रैव क्षिप्रेतरादिमेदसङ्गतिः, अत एव चोपर्युपरि ज्ञान. प्रवृत्तिरूपसन्तानव्यवहार इति द्रष्टव्यम् ।
[७. ईहावायधारणानां क्रमशो निरूपणम्।) ६ १२. अवगृहीतविशेषाकाङ्क्षणम्-ईहा, व्यतिरेकधर्मनिराकरणपरोऽन्वयधर्म- 15 घटनप्रवृत्तो बोध इति यावत्, यथा-'श्रोत्रप्राह्मत्वादिना प्रायोऽनेन शन्देन मवितव्यम्' • 'मधुरत्वादिधर्मयुक्तत्वात् शालादिना' वा इति । न चेयं संशय एव; तस्यैकत्र धर्मिणि विरुदनानार्थज्ञानरूपत्वात् , अस्या निधयामिमुखत्वेन विलक्षणत्वात् ।।
६१३. ईहितस्य विशेषनिर्णयोऽवायः, यथा-'शब्द एवायम्', 'शास एवायम्' इति वा।
20 ____६१४. स एव दृढतमावस्थापनो धारणा । सा च त्रिविधा-अविच्युतिः, स्मृतिः, वासना च । तत्रैकार्थोपयोगसातत्यानिवृत्तिः अविच्युतिः। तस्यैवार्थोपयोगस्य कालान्तरे 'तदेव' इत्युल्लेखेन समुन्मीलनं स्मृतिः । अपायाहितः स्मृतिहेतुः संस्कारो वासना। द्वयोरवग्रहयोरवग्रहत्वेन च तिसृणां धारणानां धारणात्वेनोपग्रहान्न विभागव्याघातः।
६१५. केचित्तु-अपनयनमपायः, धरणं च धारणेति व्युत्पत्त्यर्थमात्रानुसारिणः- 25 'असद्भूतार्थविशेषव्यतिरेकावधारणमपायः, सद्भूतार्थविशेषावधारणं च धारणा'-इत्याहुः। तमा रुचिचदन्यव्यतिरेकपरामर्शात्, कचिदन्वयधर्मसमनुगमात् , कचिच्चोमाभ्यामपि भवतोऽपायस्य निश्चयैकरूपेण मेदाभावात् , अन्यथा स्मृतेराधिक्येन मतेः पञ्चमेदत्वप्रसङ्गात् । अथ नास्त्येव भवदमिमता धारणेति मेदचतुष्टया(य)व्याघात; तथाहिउपयोगोपरमे का नाम धारणा ? उपयोगसातत्यलक्षणा अविच्युतियापायानातिरिच्यते । 30