SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ अणुव्रतचतुष्कशीलसप्तकवर्णनम् । यथा वा यावदद्याह्नि भूयान्मेऽनशनं महत् । यद्वा तत्रापि रात्रौ च ब्रह्मचर्य ममास्तु तत् ॥ १२५ ॥ यथा वा वर्षासमये चातुर्मासेऽथ योगिवत् । इतः स्थानान्न गच्छामि क्वापि देशान्तरे जवात् ।। १२६ ॥ परिपाट्यानया योज्या वृत्तिः स्याद्बहुविस्तरा । कर्तव्याच यथाशक्ति मातेव हितकारिणी ॥ १२७ ॥ पञ्चातिचारसंज्ञाः स्युर्दोषाः सूत्रोदिता बुधैः । देशविरतिरूपस्य व्रतस्यापि मलप्रदाः ॥ १२८ ॥ तत्सूत्रं यथा-आनयनप्रेष्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपाः ।। आत्म सङ्कल्पितादेशाद्वहिःस्थितस्य वस्तुनः । आनयेतीङ्गितैः किश्चिद् ज्ञापनानयनं मतम् ॥ १२९ ॥ उक्तं केनाप्यनुक्तेन स्वयं तच्चानयाम्यहम् । एवं कुर्विति नियोगो प्रेष्यप्रयोग उच्यते ॥ १३०॥ शब्दानुपातनामापि दोषोतीचारसंज्ञकः । संदेशकारणं दूरे तव्यापारकरान् प्रति ॥ १३१ ॥ दोषो रूपानुपाताख्यो व्रतस्यामुष्य विद्यते । स्वाङ्गाङ्गदर्शनं यद्वा समस्या चक्षुरादिना ॥ १३२ ॥ अस्ति पुद्गलनिक्षेपनामा दोषोत्र संयमे । इतो वा प्रेषणं तत्र पत्रिकाहेमवाससाम् ॥ १३३ ॥ उक्तातीचारनिर्मुक्तं स्यादेशविरतिव्रतम् । कर्तव्यं वतिनावश्यं हिंसातृष्णादिहानये ।। १३४ ॥ व्रतं चानर्थदण्डस्य विरतिर्गृहमेधिनाम् । द्वादशव्रतवृक्षाणामेतन्मूलमिवाद्वयम् ॥ १३५ ॥ एकस्यानर्थदण्डस्य परित्यागो न देहिनाम् । व्रतित्वं स्यादनायासान्नान्यथायासकोटिभिः ॥ १३६ ।। स्वार्थं चान्यस्य संन्यासं विना कुर्यान्न कर्म तत् । स्वार्थश्वावश्यमात्रात्मा स्वार्थः सर्वो न सर्वतः ॥ १३७ ॥
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy