________________
श्रीगुणभद्राचार्यविरचिताः
आत्मानुशासनम् -
मङ्गलाचरणम् दमोनिवासनिलयं विखीनविलयं निधाय हृदि वीरम् । प्रात्मानुशानमहं वक्ष्ये मोक्षाय भव्यानाम् ॥१॥ दुःखाद्विमेषि नितरामभिवाञ्छसि सुखमतो हमप्यात्मन् । दुःखापहारि सुखकरमनुशास्मि तवानुमतमेव ॥२॥ यद्यपि कदाचिदस्मिन् विपाकमधुरं तदा तु कटु किंचित् । त्वं तस्मात्मा भैषोर्यथातुरो भेषजादुग्रात् ॥३॥ जना घनाश्च वाचाल सुलभाः स्युर्वृथोत्थिताः । दुर्लभा बन्तरार्दास्ते जगदभ्युजिहीर्षवः ॥४॥ प्राज्ञः प्रातलमस्त्रशास्त्रहृदयंः प्रव्यक्त लोकथितिः ... प्रास्ताशः प्रतिभापरः प्रशमवान् प्रागेव दृष्टोत्तरः। प्रायः प्रश्वसहः प्रभुः परमनोहारी परानिन्दया याद्धर्मकथां गमे गुणनिधिः प्रस्पष्टमिष्टाक्षरः ॥५॥ श्रुतमविकलं शुद्धा वृतिः परप्रतिबोधने परिणतिरुरुद्योगो मागप्रवर्तनसद्विधौ। बुधनुतिरनुत्सेको लोकाता मृदुता स्पृहा बाविपतिमुणा यस्मिन्नत्ये च. सोऽस्तु गुरुः संताम् ॥६॥