________________
प्रथम गुच्छक ।
येन क्षता मन्मथमानमूर्छा विषादनिद्राभयशोकचिन्ता। क्षयोऽनलेनेव त रुप्रपञ्चस्तं देवमाप्तं शरणं प्रपद्ये ॥ २१ ॥ नसंस्तरोऽश्मा न तृणं न मेदिनी विधानतो नोफलकोविनिम्मितः यतो निरस्ताक्षकषायविद्विषः सुधीभिरात्मैव सुनिर्मलो मतः न संस्तरो भद्रसमाधिसाधनं न लोक पूजा न च संघमेलनम् । यतस्ततोऽध्यात्मरतो भवानिशं विमुच्य सर्वामपि बाह्य वासनाम् न सन्ति बाह्या मम केचनार्था भवामि तेषां न कदाचनाहम् । इत्थं विनिश्चित्य विमुच्य बाह्यं स्वस्थः सदा त्वं भव भद्रमुक्त्यै आत्मानमात्मन्यवलोक्यमानस्त्वं दर्शनशानमयो विशुद्धः। एकाग्रचित्तः खलु यत्र तत्र स्थितोपि साधुर्लभते समाधिम् ॥२५ एकः सदा शाश्वतिको ममात्मा विनिर्मलः साधिगमस्वभावः। बहिर्भवाः सन्त्यपरे समस्ता न शाश्वताः कर्मभवाः स्वकीयाः यस्यास्ति नैक्यं वपुषापि सार्द्ध तस्यास्ति किं पुत्रकलत्रमित्रैः। पृथक्कृते चर्मणि रोमकूपाः कुतो हि तिष्ठन्ति शरीरमध्ये ॥२७॥ संयोगतो दुःखमनेकभेदं यतोऽश्नुते जन्मवने शरीरी। ततनिधासौ परिवर्जनीयो यियासुना निवृतिमात्मनीनाम् २८ सर्व निराकृत्य विकल्पजालं संसारकान्तारनिपातहेतुम् । विविक्तमात्मानमवेक्ष्यमाणो निलीयसे त्वं परमात्मतत्त्वे ॥२९॥ स्वयं कृतं कर्म यदात्मना पुरा फलं तदीयं लभते शुभाशुभम्। परेण दत्तं यदि लभ्यते स्फुटं स्वयं कृतं कर्म निरर्थकं तदा ॥३०॥ निजार्जितं कर्म विहाय देहिनो न कोपिकस्यापि ददाति किंचन विचारयन्नेवमनन्यमानसः परो ददातीति विमुच्य शेमुषीम् ॥३१