________________
॥ श्री वीतरागाय नमः ॥
धर्म परिक्षा.
प्रकरण १ लुं.
- -
मङ्गलाचरण. श्रीमान्नभस्वत्रयतुङ्गशालं जगद्गृहं बोधमयः प्रदीपः । समन्ततो द्योतयते यदीयो भवन्तु ते तीर्थकराः श्रिये नः ॥ १ ॥ कर्मक्षयानन्तरमर्चनीयं विविक्तमात्मानमवाप्य पूतं । त्रैलोक्यचूडामणयो भवन्ति भवन्तु मुक्ता मम मुक्तये ते ॥ २ ॥ बचोंऽशुभिर्भव्यमनःसरोजं निद्रां न वै बौधितमेति भूयः ।। कुर्वन्तुदोषोदयनोदिनस्ते चर्यामगा मम सूरिसूर्याः ॥३॥ शरीरजानामिव भाक्तिकानामनुग्रहार्थ पितरौ धनानि । यच्छन्तिशास्त्राण्यपसेदुषां ये तेऽध्यापका मे विधुनन्तु दुःखम् ॥ ४ ॥ कदर्थिता शेष जगत्रयं ये विदारयन्ते समशीलशस्त्रैः ।