________________
१४८
प्रायश्चित्तसंग्रहे
मृजलादिप्रमां ज्ञात्वा कुड्यादीनां प्रलेपने । कायोत्सर्गादिमूलान्तमार्याणां प्रवितीर्यते ॥ ११७ ॥ मृज्जलादिप्रमां-मृन्मृत्तिका, जलं पानीयं, आदिशब्देनाग्निवायुप्रत्येकानन्तवनस्पतीनां च, प्रमां प्रमाणं । ज्ञात्वा-अवबुध्य । कुड्यादीनां भित्तिभूमिभेषजभाण्डादिद्रव्याणां । प्रलेपने-उपदेहने कृते सति । प्रलेपनग्रहणमुपलक्षणमात्रं तेनाग्निसमारंभादिक्रियाविशेषेषु च सत्सु परिमाणमवगम्य देयं प्रायश्चित्तं । कायोत्सर्गादिमूलान्तं-कायोत्सर्गस्तनूत्सर्गः, तदादि तत्प्रभृति, मूलं पंचकल्याणं, तदन्तं तत्पर्यवसानं । आर्यागां-संयतिकानां । प्रवितीर्यते-प्रदीयते । विडालपदादिमात्रेषु मृत्तिकादिषु कायोत्सर्गः । सर्वोत्कृष्टं पंचकल्याणं भवति मध्ये विकल्पः । उक्तं च
पुढवि विडालपयमेत्तमक्खणंतो जलंजलिं तह य । दीवयसिहापमाणं हुयासणं विज्जवंतो य ॥ १॥ वियणेणं वीयंतो वाराओ दुण्णि तिण्णि वा होई ।
एक्कं हि य बहुदोसे काउस्सग्गो वि तं लहई ॥ २ ॥ वस्त्रस्य क्षालने घाते विशोषस्तनुसर्जनम् । प्रासुकतोयेन पात्रस्य धावने प्रणिगद्यते ॥ ११८ ॥ वस्त्रस्य-चीवरस्य । क्षालने-धावने । घाते-अपां अप्कायिकानां धाते विराधने सति । विशोषः-विशोषणमुपवासः प्रायश्चितं । तनु. सर्जनं---कायोत्सर्गः । प्रासुकतोयेन-प्रासुकपानीयेन । पात्रस्य-भिक्षाभाण्डस्य । धावने-प्रक्षालने कृते सति । प्रणिगद्यते-परिकर्त्यत इति यथाक्रमं योज्यम् ॥ ११८॥
वस्त्रयुग्मं सुबीभत्सलिंगप्रच्छादनाय च ।
आर्याणां संकल्पेन तृतीये मूलमिष्यते ॥ ११९॥ . वस्त्रयुग्म-वस्त्रयुगलं । सुबीभत्सलिंगप्रच्छादनाय-सुबीभत्सं सुष्टु बीभत्समदर्शनीयं, लिंगं रूपं, तस्य प्रच्छादनाय पिधानार्थ । आर्याणां