________________
Wan
N/in
n
nnnnnnn
प्रायश्चित्त-चूलिका।
१४७ ___ कुलीनक्षुल्लकेष्वेव-कुलीनेषु कुलपुत्रेषु ब्राह्मणक्षत्रियवैश्यविशुद्धोभयकुलसमुत्पन्नेषु व्यङ्गादिकारणसंश्रयात् क्षुल्लकव्रताधिष्ठितेषु सत्सु । सदा-सर्वकालं । देयं-दातव्यं । महावतं--निर्ग्रन्थलिंगं । सल्लेखनोपरूढेषु--संस्तरमाश्रितेषु नान्येषु क्षुल्लकेषु । गणेन्द्रेण-गणवारिणा । गुणेच्छुना-गुणाभिलाषिणा ॥ ११३ ॥
___ ऋषि-प्रायश्चित्तम् ।
साधूनां यद्वदुद्दिष्टमेवमार्यागणस्य च । दिनस्थानत्रिकालोनं प्रायश्चित्तं समुच्यते ॥ ११४॥ साधूनां-ऋषीणां । यद्वत्-यथैव । उद्दिष्टं--प्रतिपादितं । एवमार्यागणस्य च-आर्यागणस्यापि संयतिकासमूहस्य च एवमेव प्रायश्चित्तं भवति । अयं तु विशेषः, दिनस्थानत्रिकालोनं-दिनस्थानं दिवसप्रतिमायोगः, त्रिकालः त्रिकालयोगः, ताभ्यामूनं हीनं रहितं । प्रायाश्चत्तंविशुद्धिः । समुच्यते-अभिधीयते ॥ ११४ ॥
समाचारसमुद्दिष्टविशेषभ्रंशने पुनः । स्थैर्यास्थैर्यप्रमादेषु दर्पतः सकृन्मुहुः ॥ ११५ ॥ समाचारसमुद्दिष्टविशेषभ्रंशने पुनः-समाचारे ये केचन कार्याकार्यमन्तरेण परगृहगमनरोधनस्नपनपचनषडिधारंभप्रभृतयो विशेषास्तेषां भ्रंशे स्खलने तु सति । स्थैर्यास्थैर्यप्रमादेषु-स्थैर्ये स्थिरत्वे, अस्थैर्ये अस्थिरत्वे, प्रमादे कथंचिद्दोषसम्पन्ने । दर्पतः-अहंकाराच्च । सकृत्-एकवारं। मुहुःपुनः पुनः । एतेषु यथासंख्यं प्रायाश्चत्तानि वश्यन्ते ॥ ११५ ॥
कायोत्सर्गः क्षमा शान्तिः पंचकं पंचकं कमात् ।
षष्ठं षष्ठं ततो मूलं देयं दक्षगणेशिना ॥ ११६ ॥ कायोत्सर्ग:--तनुत्सर्गः । क्षमा-उपवासः । क्षान्तिः-क्षमणं । पंचकं-कल्याणं । पुनः, पंचकं-- । क्रमात्--क्रमेण । षष्ठं--षष्ठं प्रायश्चित्तं । पुनरपि षष्ठमेव । ततो मूलं-तदनन्तरं मूलं पंचकल्याणं । देयं-दातव्यं । दक्षगणशिना-निपुणगणेन्द्रेण ॥ ११६ ॥
१ सप्ताक्षराण्येव पुस्तके।