________________
त्रिष० पर्व-६-सर्ग-१] 49
[ अध्याय-1कषायादिमलालीढं, मनः: सर्वशरीरिणाम् । क्षालयंति जगन्नाथ !, त्वदर्शनजलोर्मयः ॥ ३ ॥ कर्मच्छिदे बद्धयत्न-स्तीर्थकृत्कर्म यत् पुरा। आर्जयस्तत्तव स्वार्थाऽ-नपेक्षाऽन्योपकारिता ॥४॥ घोरसंसारभीतानां, महादुर्गमिव प्रभो!। . जगत्यऽदस्ते समव-सरणं शरणं नृणाम् ॥५॥ जानासि सर्व सर्वेषां, भावं सर्वहितोऽसि च। प्रार्थनीयं न तत् किंचि-त्तथापि प्रार्थ्यसे मया ॥६॥ यथा हि विहरन्नुा , ग्रामाकरपुरादिकम् । क्षणे क्षणे त्वं त्यजसि, मा त्याक्षीमन्मनस्तथा ॥७॥ त्वत्पादपंकजध्यान-षट्पदीभूतचेतसः।.. व्यतिक्रामतु मे कालो, भगवस्त्वत्प्रसादतः ॥८॥
- ४०
*श्रीकुंथुनाथ-जिनस्तवः अद्य नीराणि क्षीरोद-प्रभृतीनामुदन्वताम् ।.. पद्मप्रभृतिहूदानां, पद्मानि च पयांसि च ॥१॥ * मेरौ इन्द्रादिः स्तौति ।