________________
अध्याय-१-] 48 [स्वाध्यायदोहन
विद्याधराणां महर्द्धि-श्चक्रवर्ती कदाऽप्यसि । प्रकृष्टोऽस्येकदा देवो, बलदेवोऽसि चैकदा ॥४॥ एकदाऽप्यच्युतेंद्रोऽसि, ज्ञानी चक्रभृदेकदा । एकदा त्वं महेंद्रोऽसि, अवेयकविभूषणम् ॥५॥ महासत्त्वोऽवधिज्ञान-धरो राजाऽसि चैकदा। सर्वार्थसिद्धाऽलंकारो-ऽहमिंद्रः पुनरेकदा क क जन्मनि नाभूस्त्व-मुत्कृष्टः परमेश्वर!। तीर्थकृज्जन्मना त्वऽद्य, पर्याप्ता वर्णना गिरः नेशोऽस्मि त्वद्गुणान् वक्तुं, स्वमर्थ किं तु वच्म्यहम् । भवे भवे भवतु मे, भक्तिस्त्वत्पादपद्मयोः ॥८॥
३९ श्री शान्तिनाथजिनस्तवः श्रेयोदशाप्रवेशोऽद्य, जगतोऽपि जगत्पते ! । ज्ञानाऽदित्येन भवता, सुदिनोत्सवकारिणा ॥ १ ॥ पुण्यैरस्मादृशामेते, तव कल्याणकोत्सवाः । कल्याणचिंतामणयः, प्रभवंति जगद्गुरो ! ॥२॥