________________
अध्याय-१]
46 [स्वाध्यायदोहनतव वर्षांऽबुदस्येव, धर्मदेशनवारिणा। भरताऽधं सर इवाऽ-शेष पूरिष्यतेऽचिरात् ॥६॥ अनंतान् देहिनो मुक्ति, प्रापयन् परमेश्वर !। अरिदेशमिवोर्वीश-स्त्वं कर्ता भवमुद्वसम् ॥७॥ त्वत्पादपद्मलीनेन, षट्पदेनेव चेतसा। भगवन् ! कल्पवासेऽपि, प्रयांतु मम वासराः ॥ ८ ॥
*श्री धर्मनाथ-जिनस्तवः विजयस्व जगच्चक्षु-श्वकोराऽनंदचंद्रमाः। मिथ्यात्वध्वांतमार्तड !, धर्मनाथ ! जगत्पते ! ॥ १ ॥ चिरं व्यहार्षीश्छद्मस्थो, गतछद्मा तथाऽप्यसि । अनन्तदर्शनोऽपि त्वं, दर्शनांऽतरबाधकः ॥२॥ त्वद्देशनापयःपूरैः, परितः प्लाविताऽऽत्मनाम् । अह्राय कर्ममालिन्य-मपयाति शरीरिणाम् ॥ ३ ॥ तथा न मेवच्छायासु, तरुच्छायासु नाऽपि वा।
यथा शाम्यति संतापः, पादमूले तव प्रभो ! ॥४॥ * समवसरणभूम्यां सौधर्मेन्द्रः स्तौति ।