________________
अध्याय-१]
24 [स्वान्वायदोहन तव प्रेष्योऽस्मि दासोऽस्मि, सेवकोऽस्म्यस्मि किंकरः। ओमिति प्रतिपद्यस्व, नाथ ! नातः परं ब्रूवे ॥८॥
*श्री सुमतिनाथ-जिनस्तवः । देवत्वजन्मकल्याणेनाऽपि-कल्याणभाग्मही । किं पुनः पादकमलै-यंत्र त्वं विहरिष्यसे ॥ १ ॥ त्वदर्शनसुखप्राप्त्या, कृतकृत्या दशोऽधुना । कृतार्थाः पाणयश्चैते, भगवन् ! पूजितोऽसि यैः ॥ २ ॥ जिननाथ ! तव स्नात्र-चर्चाऽर्चाऽऽदिमहोत्सवः । मन्मनोरथचैत्यस्य, चिरात् कलशतां ययौ ॥ ३ ॥ जगन्नाथ ! प्रशंसामि, संसारमपि संप्रति । यत्र त्वदर्शनं देव !, मुक्तरेकं निबंधनम् ॥ ४ ॥ उर्मयोऽपि हि गण्यते, स्वयंभूरमणोदधेः । तवाऽतिशयपात्रस्य, न पुनर्मादृशैर्गुणाः ॥ ५ ॥ धर्मैकमंडपस्तंभ !, जगदुद्योतभास्कर !। कृपावल्लीमहावृक्ष ! रक्ष विश्वं जगत्पते ! ॥ ६ ॥ * जन्माऽभिषेकसमये शक्रकृतः ।