________________
अध्याय-१]
20
[स्वाध्यायदोहन
कल्याणकैगें जन्म-प्रव्रज्याज्ञानमुक्तिभिः । नारकाणामपि सुख-प्रदेभ्यो वो नमो नमः ॥५॥ मेघानामिव वायूना-मिव चंद्रमसामिव । अर्काणामिव भवतां, साधारण्यं श्रियेऽस्तु नः ॥ ६॥ अष्टापदगिरावत्र, धन्यास्ते पक्षिणोऽपि हि । निरंतरायाः पश्यंति, भवतो ये दिने दिने ॥७॥ जीवितं चरितार्थ नः, कृतार्थो विभवश्च नः । युष्मदाऽऽलोकनाऽर्चाभि-श्चिररात्राय संप्रति ॥८॥
*श्री संभवनाथ-जिनस्तवः नमो भगवते तुभ्यं, विश्वनाथाय तायिने । तृतीयतीर्थनाथाय, सनाथाय महर्दिभिः ॥१॥ ज्ञानस्त्रिभिश्चतुर्भिश्वाऽ-तिशयैः सहजन्मभिः । जगद्विलक्षणोऽप्यष्ट-सहस्रस्फुटलक्षणः ॥२॥ सदैव हि प्रमत्तानां, प्रमादच्छेदकारणम् । इदं त्वजन्मकल्याणं, कल्याणायाऽद्य मादृशाम् ॥ ३ ॥ * जन्माऽभिषेकसमये शकेन्द्रसंदृब्धः ।