________________
त्रिषष्टिः पर्व--सर्ग-३-४] 8
[अध्याय-1अद्याऽवसर्पिणीलोक-पद्माकर ! दिवाकर ! । त्वयि दृष्टे प्रभात में, प्रनष्टतमसोऽभवत् ॥ २ ॥ भव्यजीव मनोवारि-निर्मलीकारकर्मणि ।। वाणी जयति ते नाथ !, कतकक्षोदसोदरा ॥ ३ ॥ तेषां दूरे न लोकाग्रं, कारुण्यक्षीरसागर !। समारोहंति ये नाथ !, त्वच्छासनमहारथम् ॥ ४ ॥ लोकाऽग्रतोऽपि संसार-मग्रिमं देव ! मन्महे । निष्कारणजगबंधु-यंत्र साक्षात्त्वमीक्ष्यसे ॥ ५ ॥ त्वदर्शनमहानंद-स्यदनिष्यंदलोचनैः । स्वामिन् ! मोक्षसुखाऽऽस्वादः संसारेऽप्यनुभूयते ॥ ६ ॥ रागद्वेषकषायाद्यै, रुद्धं जगदरातिभिः । इदमुद्वेष्ट्यते नाथ ! त्वयैवाऽभयसत्रिणा ॥ ७ ॥ स्वयं ज्ञापयसे तत्त्वं मार्ग दर्शयसि स्वयम् । स्वयं च त्रायसे विश्वं, त्वत्तो नाथामि नाथ ! किम् ॥ ८ ॥
नानावस्कंदसंग्राम-हतग्रामभुवो मिथः । मित्रीभूयेह तिष्ठति, राजानस्तव पर्षदि
॥ ९ ॥