________________
[ अध्याय-३
साधारण जिनस्तवनम् ] 185
श्री चतुर्विंशति-जिनस्तवः
सुरकिन्नरनागनरेन्द्रनतं, प्रणमामि युगादिजिनमजितं । संभवमभिनंदनमथसुमति, पद्मप्रभमुजवलधीरमति ॥ १ ॥ वंदे च सुपार्श्वजिनेन्द्रमहं, चंद्रप्रभमष्टकुकर्मदहं । सुविधिप्रभुशीतलजिनयुगलं, श्रेयांसमशंसयमतुलबलं ।। २ ।। प्रभुमर्चय नृपवसुपूज्यसुतं, जिनविमलमनन्तमभिज्ञनतं । तं धर्ममधर्मनिवारिगुणं, श्रीशान्तिमनुत्तरशान्तिगुणम् ॥३॥
कुंथुश्रीअरमल्लीजिनान् , मुनिसुव्रतनमिनेमीस्तमसिदिनान् । श्रीपार्श्वजिनेन्द्रमिभेन्द्रसम, वंदे जिनवीरमभीरुतमम् ॥ ४॥ इति नागकिन्नरनरपुरंदरवंदितक्रमपंकजा, निर्जितमहारिपुमोहमत्सरमानमदमकरध्वजा । विलसंति सततं सकलमंगलकेलिकाननसन्निभा, सर्वे जिना मे हृदयकमले राजहंससमप्रभा
॥ इति स्वाध्यायदोहनग्रन्थः समाप्तः ॥