________________
जात ।
श्री हृदयप्रदीपषट्त्रिंशिका] 167
[ अध्याय-३पण्डितेन मनो लक्ष्ये, शिक्षणीयं मुहुर्मुहुः । शैक्षवद् वञ्चयित्वैनं, भवक्रीडारसं व्रजेत् ॥४०॥ घटी निरवधानस्य, गणकस्येव मञ्जति । युङ्ग्यात् तेन मनो लक्ष्ये, धन्वीवाऽभ्यासतः शरम् ॥४१॥ धीरः सचेतनो मौनी, यो मार्गे यात्यसङ्गतः । बलिष्ठैरपि मोहाद्यैः, स शिवं यात्यगञ्जितः ॥ ४२ ॥ अज्ञानाजायते दुःखं, सज्ञानाच्च सुखं पुनः। अभ्यस्यं तत् तथा तेन, स्वात्मा ज्ञानमयो भवेत् ॥ ४३ ॥ अल्पज्ञानेन नो शान्ति, याति दृप्तात्मनां मनः । स्तोकवृष्ट्या यतम्तप्तभूमिरूष्मायतेतराम् ॥४४॥ बह्वासङ्गेन जीवस्याऽत्यासन्ना अपि पापिनः ।। ज्ञातास्तेन स्वयं यान्ति, दोषा हीता इव ध्रुवम् ॥ ४५ ॥ विज्ञातभवतत्त्वस्य, दुःखं शोकेऽपि नो भवेत् । तानं स्वर्णं विदित्वा यो, गृहीते तस्य कः क्लमः ? ॥४६॥ पङ्गुरूपं नृणां भाग्य, व्यवसायोऽन्धसन्निभः । यथा सिद्धिस्तयोर्योगे, तथा ज्ञान-चरित्रयोः ॥४७॥ मैत्री-प्रमोद-कारुण्य-माध्यस्थाख्या महागुणाः । युक्तस्तैर्लभते मुक्ति, जीवोऽनन्तचतुष्टयम् । ॥४८॥
सानमः ।