________________
श्री पार्श्वनाथ च० ] 165
[ अध्याय-३रजःक्रीडापरे लोके, धूलिपर्वसमे कलौ।। तद्वाक्यतिलकं मत्त्वा, रक्षत्यात्मानमात्मवित् ॥ २२ ॥ सुषमत्वात् सुखोत्तारास्तता अपि कृतादयः । दुस्तरो विषमावतः, स्वल्पोऽपि हि कलिः पुनः ॥ २३ ॥ पुरुषार्थद्विषं ज्ञात्वा, प्रकृति स्वार्थतत्पराम् । धूर्तमैच्या ततः स्वार्थ, यः करोति स चेतनः ॥२४॥ अजीर्ण तपसः क्रोधो, ज्ञानाजीर्णमहंकृतिः ।। परतप्तिः क्रियाजीणं, जित्वा त्रीन् निर्वृतो भव ॥ २५ ॥ सद्यः प्रीतिकरं लोके, वचो वाच्यं हितं मतम् । मूर्खः स्वमुखलालाभिरेव लूतेव बध्यते ॥ २६ ॥ सामकः कायिको दोषः, प्रायोऽत्यर्थस्तु वाचिकः । यतः पश्चादवस्थायि, व्यापकं च वचो जने ॥ २७ ॥ परार्थं व्यापयन् जीवो, रवं कान्दविकायते । नतु स्थूलोपयोगोऽपि, यस्य कः स्यात् ततोऽधम: ?॥२८॥ तुच्छा देहस्य सौन्दर्याद्, रज्यन्ते मध्यमा गिराम् । चित्तस्य तूत्तमा जीवे, सुदुर्लभं पुनस्त्रयम् ॥ २९ ॥ वीक्ष्य बाह्यान्नसंहर्षात् , खेदितव्यं जनार्जने । रज्येत् त्वन्तर्मुखीभूय, लक्ष्यं भित्त्वात्मपार्थिवः ॥ ३० ॥