________________
अध्याय-३ ]
156 [ स्वाध्यायदोहनज्ञानदर्शनचारित्रराज्यं त्वय्येकतां गतम् । अतस्तेषामिवैषा ते, मूनि च्छत्रत्रयी स्थिता ॥ ३ ॥ चतुर्धा दिशतो धर्म, चतुर्मुख ! तव ध्वनिः । दिव्यश्चतुर्दिशं याति, कषायानिव धर्षितुम् ॥४॥ मन्दरादीनि पुष्पाणि, पञ्चधा देशनाभुवि । किरन्ति तव पञ्चाक्षजयतोषादिवामराः शाखाशिखरमूलै: षड्दिग्गतैः शंसतीव ते । षण्णां जीवनिकायानां, रक्षां किकिल्लिरुल्लसन् ॥६॥ दग्धसप्तभयैधस्त्वात् , सप्तार्थिः सममप्यदः । धत्ते भामण्डलं नाथ ! त्वत्सङ्गादिव शैत्यताम् ॥ ७ ॥ भूत्वा दुन्दुमिरप्युच्चै नन्नष्टासु दिवसौ । अष्टकर्मरिपुवातविजयं शंसतीव ते ॥८॥ प्रातिहार्यश्रियं मूर्तामन्तरङ्गां गुणश्रियम् । इत्थं दृष्ट्वा मनो नाथ ! कस्य न स्यात् त्वयि स्थिरम् ? ॥९॥