________________
श्री पार्श्वनाथ च० ]
145
छिन्नमूलो यथा वृक्षो, गतशिर्षो यथा भटः ।
धर्महीनो धनी तद्वत्, कियत्कालं ललिष्यति धराऽन्तःस्थं तरोर्मूलमुच्छ्रयेणाऽनुमीयते । अदृष्टोऽपि तथा प्राच्यधर्मो लक्षेत संपदा मूलभूतमतो धर्म सिक्त्वा भोगफलं बुधाः । गृह्णन्ति बहुशो मूढास्तमुच्छिद्यैकदा पुनः
[ अध्याय-३
5
आस्तां सिद्धिगतं सौख्यं, मनोऽभीष्टं यदैहिकम् । जनास्तदपि धर्माख्यवृक्षस्य कुसुमोपमम्
यद्यपि ज्वरितस्याऽर्त्तिर्जन्तोर्जनयते जलम् । तथाऽप्युष्णीकृतं तस्य, मुख्यपथ्यं तदेव हि
॥ ७ ॥
॥ ८ ॥
118 11
11 30 11
कुलं गतमलं कामाऽनुरूपं रूपमव्यथम् । विश्वभोग्यं च सौभाग्यं, श्रीविलासो विकस्वरः ॥ ११ ॥ अनवद्या पुनर्विद्या, कीर्त्तिः स्फूर्तिमती सती । अभिरामो गुणग्रामः, सर्वं धर्मादवाप्यते ॥ १२ ॥ (युग्मम्)
॥ १३ ॥
तथा प्राक्कर्मदोषेण, पीड्यमानस्य यद्यपि । धर्मो न रतये, कार्यो नीरसोऽपि तथाऽप्यसौ ॥ १४॥
१०