________________
। मूलाधारेचत्वारि प्रायश्चित्तानि परिगृह्यन्ते च्छेदमूलपरिहारपारंचिकानि । अथवा चत्वारो मासाः कांजिकभक्ताहारेण । सेतस्य आर्यागणघरस्य भवन्तीत्यर्थः । गच्छादि-गच्छ ऋषिकुलं आदिर्येषां ते गच्छादयस्तेषां, विराहणा-विराधना विनाशो विपरिणामो वा गच्छादिविराधना गच्छात्मगणकुलश्रावकमिथ्यादृष्टयादयो विराधिता भवन्तीत्यर्थः। अथवा गच्छात्मविनाशः होज-भवेत् । पूर्वोक्तगुणव्यतिरिक्तो यद्यार्याणां गणधरत्वं करोति तदानीं तस्य चत्वारः काला विनाशमुपयान्ति, अथवा चत्वारि प्रायश्चित्तानि लभते गच्छादेविराधना च भवेदिति ॥ १८५॥
तस्मात्तेन परगणस्थेन यत्तस्याचार्यस्यानुमतं तत्कर्तव्यं सर्वथा प्रकारेणेत्यतः आहकिंबहुणा भाणदेणदुजा इच्छा गणधरस्स सासव्वा
कादव्वा तेण भवे एसेव विधी दुसेसाणं॥ १८६॥ किंबहुना भणितेन तु या इच्छा गणधरस्य सा सर्वा । कर्तव्या तेन भवेत् एषैव विधिस्तु शेषाणाम् ॥ १८६ ॥
किंव हुणा-किंबहुना। मणिदेणदु भणितेन तु किं बहुनोक्तेन । जा इच्छा-येच्छा योभिप्रायः । गणधरस्स-गणधरस्याचार्यस्य । सा सव्वा-सर्वैव सा कादव्वा कर्तव्या। तेण पादोणेन । भवे भवेत् । किं परगणस्थेनैव कर्तव्या नेत्याह