________________
३३३
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
समस्तप्रकरणोपसंहारमुपदेशं च वृत्तेनाऽऽहगिहत्थधम्म परिपालिऊणं, अप्पाणमेवं परितोलिऊणं ।
अट्ठारसीलंगसहस्स भारं, धरेह धोरेयसुधारियं ति ॥२०९॥
गृहस्थाः= श्रावकास्तेषां धर्म= श्रुतचारित्ररूपम्, परिपाल्यनिर्वाह्य आत्मानं स्वम् एवं पूर्वोक्तप्रकारेण, परितोल्य परिकर्मकरणतः क्षममिति ज्ञात्वा, 'अट्ठारसीलंगसहस्स भारं' ति शीलाङ्गाष्टादशसहस्रभारं महाभाररूपम्, 'धरेह' त्ति धारयत, 'धोरेयसुधारियं' ति धौरेयसुधारितं गणधरादिधुर्यमहावृषभातिशयधृतम्, इति प्रकरणपरिसमाप्तौ ॥२०९॥
समर्थितप्रकरणश्च ग्रन्थकृद्रागादिनोत्सूत्रप्ररूपणाद्याज्ञाभङ्गे मिथ्यादुष्कृतं प्रयच्छतितेलोक्कणाहाण जिणाणमाणा, समत्थलोए वि अलंघणिज्जा । रागेण दोसेण व लंघिया जं, तं मज्झ मिच्छामिह दुक्कडं ति ॥२१॥
त्रैलोक्यनाथानां जगत्पतीनाम्, जिनानाम् = अर्हताम्, आज्ञा तदादेशरूपा, समस्तलोकेऽपि=निःशेषजनेऽपि, अलङ्घनीया नाऽतिक्रमणीया, रागेण प्रेमानुबन्धलक्षणेन, द्वेषेण वा=अप्रीतिरूपेण वा, लङ्किता अतिक्रान्ता, 'ज' तियत् 'तं' ति तत् 'मज्झ' इत्यात्मनिर्देशे, 'मिच्छामिह दुक्कडं' ति मिथ्या विपरीतम्, भवत्विति शेषः, इह प्रकरणकरणे, 'दुक्कडं' ति दुष्कृतम्, इति समाप्तौ ॥२१०॥
मिथ्यादुष्कृतदानानन्तरमात्मौद्धत्यपरिहारं वृत्तेनाऽऽह
अन्नाणमूढेण विसंठुलं पि, पलावमित्तं व कुणंतयस्स । जो मज्झ भावो विमलो तओ य, भव्वाणमण्णाण वि होउ सिद्धी ॥२११॥
अज्ञानमूढेन विभक्तिव्यत्ययाद् अज्ञानमूढस्य, “विसंतुलं पि' =विसंस्थुलमपि असमञ्जसमपि, प्रलापमानं वा=बालप्रलपितमात्रं वा, कुर्वतः विदधतः 'जो' त्ति यो मम भावः= परोपकारकरणशुद्धपरिणामः, विमल:=निर्मलः, 'तओ य' त्ति तस्मात्, भव्यानां =मुक्तिगमनयोग्यानाम् अन्येषामपि= आत्मव्यतिरिक्तानाम्, भवतु सम्पद्यताम्, सिद्धिः=मुक्तिरिति वृत्तार्थः ॥२१॥
आत्मौद्धत्यं परिहत्य प्रकरणस्वरूपं निजनाम च वृत्तेनाऽऽहसिद्धंतसाराणमिणं महत्थं मुद्धाण भव्वाणमणुग्गहत्थं ।।
महामईणं च महंतसत्थं, पज्जुन्नसूरीवयणं पसत्थं ॥२१२॥ सिद्धान्तसाराणां राद्धान्तप्रधाननिष्यन्दानाम्, इमम् एतत्, 'महत्थं ति महार्थं प्रधान
१. ला. प्रधानानां पदानाम् इदम् ॥