________________
३२६
मूलशुद्धिप्रकरणम्-द्वितीयो भागः ___ पुण्यानुबन्धिपुण्यानां पुण्यं शुभम् अनुबध्नाति अनुगच्छति[इति?] पुण्यानुबन्धि । तच्च तत्पुण्यं च पुण्यानुबन्धिपुण्यं तद्विद्यते येषां ते तथा तेषाम्, पुण्यवतां= भाग्यवतां 'काणइ' त्ति केषाञ्चित्, प्रतिमादिषु सङ्के वा सुस्थाने शोभनस्थाने, याति सम्पत्, तथा चोक्तम्
एकेषां दुःखलब्धा न पहरति हठात्पार्थिवोऽर्थानकस्मादन्येषां कृष्णवा दहति विषयिणां यान्ति वेश्यागृहेषु ।
बिम्बे स्नात्रे गृहे वा विबुधपतिपतेरहतः पुण्यभाजां,
वस्त्रादौ चोपयोगं प्रतिदिनमपरे यान्ति सत्साधुसङ्के ॥४०४॥ इति श्लोकार्थः ॥१९॥ स्थानककृत्यं निगमयन्नुपदेशं च श्लोकेनाऽऽह
सरूवं सत्तठाणाणमुत्तं सुत्ताणुसारओ । किंची गुरूवएसेणं, कायव्वं तु जहारिहं ॥१९७।।
स्वरूपं= यथावत्स्वभावम्, सप्तस्थानकानां प्राकृतत्वात् स्थानकसप्तकस्य, उक्तं कथितम्, सूत्रानुसारतः सिद्धान्तानुसारेण न स्वैरण, न स्वमनीषिकयेति भावः, किं सामस्त्येन ? नेत्याह-किञ्चिद्=अल्पम्, कथमुक्तमित्याह-गुरूपदेशेन गुरुशिक्षयेत्यर्थः । ततश्च कर्तव्यम्, तु शब्दस्यैवकारार्थत्वात् कर्तव्यमेव, यथार्ह यथायोग्यं कृत्यमिति शेष इति श्लोकार्थः ॥१९७॥
किमेतदेव कृत्यं यद्भवद्भिरुक्तमुताऽन्यदपि ? इति प्रश्ने श्लोकमाहइत्येव अण्णहा कि पि, जं पि जंपंति केइ वि । जं जं आगमियं किच्चं, तं तं अण्णं पि सूइयं ॥१९८॥
अत्रैव मद्भणिते, अन्यथा अपरथा, किमपि यदपि, जल्पन्ति केचनाऽपि= अन्ये, तत्राऽपि यद्यदागमिकम् आगमोक्तम्, कृत्यं = कार्यम्, तत् तदन्यपि सूचितं= कथितमत्रैव द्रष्टव्यमिति शेष इति श्लोकार्थः ॥१९८॥
एतच्च सर्वं दर्शनप्रतिमास्वरूपमिति प्रतिपादनार्थ शेषप्रतिमासम्बन्धनार्थं च श्लोकमाह
अणुट्ठाणमिणं पायं, दंसणप्प डिमागयं । सप्पसंगं समासेण सेसं सेसाण सासई ॥१९९॥