________________
मुक्ता]
आचारलक्षणा। कालः कालमूलम् । भावमूलन्तु त्रिविधम्-औदायिकभावमूलमुपदेष्टमूलमादिमूलञ्चेति, नामगोत्रकर्मोदयाद्वनस्पतिकायमूलमनुभवन्मूलजीव एवौदयिकभावमूलम् , यैः कर्मभिः प्राणिनो मूलत्वेनोत्पद्यन्ते तेषामुपदेष्टा मोक्षसंसारयोरादिमूलस्योपदेष्टा सामान्येनोपदेष्टा वाऽऽचार्य उपदेष्ट्रभावमूलम् , मोक्षस्य ज्ञानदर्शनचारित्रतपऔपचारिकरूपेण पश्चप्रकारो विनयः आदिमूलम् , विषयकषायाः संसारस्यादिमूलम् ॥ १९॥
अथ संसारस्य नारकादिगतिरूपस्य कषायमूलत्वात्तदुन्मूलनमवश्यं विधेयमन्यथा दोषमाह.. खजनादिषु रागद्वेषाभ्यां जन्मादिप्राप्तिः ॥ २०॥
___ खजनेति, यो ह्यात्मा शब्दादिविषये वर्त्तते स कषाये वर्तत इति तस्य गुणानुरागितया तद्प्राप्तौ विनाशे वा कांक्षाशोकाभ्यां कायिकमानसदुःखेनात्यन्तमभिभूतस्तत्र तत्रोत्पन्नो रागाद्याक्रान्तों मातापित्रादिलक्षणस्वजनादावनुरज्यते, स्वभावादुपकारकर्तृत्वाद्वा, एतेषां क्षुत्पिपासादिवेदना मा भूदिति 10 कृषिवाणिज्यसेवादिकां प्राण्युपघातमयी क्रियां विदधाति; तद्विघ्नकर्तरि जन्तौ तेषां वाऽकार्यानुष्ठातृत्वें द्वेष आविर्भवति, तदेवं मातापित्राद्यर्थं कषायेन्द्रियविषयप्रवृत्तोऽर्थोपार्जनरक्षणनिरतोऽहर्निशमशुभाथ्यवसायपरिणतः समन्तात्सन्तप्यमानः काले कर्त्तव्यमकाले करोति, अवसरेऽपि न विधत्ते, अकर्त्तव्यं च करोति, तथा च दुःखमेव केवलमनुभवति, विक्षिप्तमनस्कत्वात् , धनधान्यहिरण्यद्विपदचतुष्पदराज्यभार्यादिसंयोगार्थित्वाच्च । अर्थातिलुब्धश्चातिकान्तार्थोपार्जनसमर्थवया अपि सम्भृतसंभारोऽपि प्रबल-16 जलधारावर्षनिरुद्धाखिलप्राणिसञ्चारायां प्रावृषि महानदीजलपूरानीतकाष्ठानि जिघृक्षुः शुभपरिणामनिवृत्तो मम्मण इव तदुपार्जने प्रवर्त्तते, तथा निर्गतकर्त्तव्याकर्त्तव्यविवेचनोऽतिमात्रार्थलोभदृष्टित्वादैहिकामुष्मिकदुर्विपाककारिणीर्गलकर्तनचौर्यादिक्रियाः करोति, तदेवं मातापित्रादिस्वजनेष्वनुरक्तो धनगृद्धः स्वपरकायादिभेदभिन्नैश्शस्त्रैनिःशंकं पृथ्वीकायादिप्राणिसमारम्भप्रवृत्तो जन्ममरणादीनि प्राप्नोति, अतिक्रान्तयौवनश्च यदा जरामवाप्नोति देशतस्सर्वतो वेन्द्रियैः परिहीयमाणश्शिथिलीभूतनिखिलावयवो 20 विपरीतबुद्धिः पराधीनो भवति तदा त एव स्वजनादयस्तमवधीरयन्ति न च तं शुश्रूषन्ते, सर्वैश्वावनीतोवचनमात्रेणापि केनाप्यननुवर्तमानोऽतिदुःखितो यावदायुःशेष कष्टतरां दशामनुभवतीति ॥ २० ॥ तदेवमप्रशस्तं स्थानमुक्त्वा प्रशस्तमाह
__ तस्मात्प्राप्तावसर आत्मार्थ प्रयतेत ॥ २१ ॥
तस्मादिति, यतो जन्ममरणप्रवाहेण जरया चाभिभूतो महादुःखमनुभवति जीवस्तस्मादि-25 त्यर्थः, प्राप्तावसर इति, आर्यक्षेत्रसुकुलोत्पत्तिबोधिलाभसर्वविरत्यादिकं संसारे पुनरतीव दुर्लभमवसरं लब्ध्वेत्यर्थः, विवेकिभिः प्रोक्तावसरमवाप्य यावदिन्द्रियैः क्षीयमाणशक्तिकैर्व्याकुलं जराजीणं न खजनादयः परिवदन्ति यावच्चानुकम्पया न पोषयन्ति रोगाभिभूतञ्च न परित्यजन्ति तावदात्मार्थ यत्नो विधेयः, आत्मनोऽर्थः, स च ज्ञानदर्शनचारित्रात्मकः, अन्यस्त्वनर्थ एव, अवसरो द्रव्यक्षेत्रकालमावभेदभिन्नः, तत्र द्रव्यावसरो जङ्गमत्वपञ्चेन्द्रियत्वविशिष्टजातिकुलरूपबलारोग्यायुष्कादिको 30 मनुष्यभवः संसारोत्तरणसमर्थचारित्रावाप्तियोग्यः, देवनारकभवयोः सम्यक्त्वश्रुतसामायिके एव,