SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ सूत्रार्थमुक्तावल्याम् [द्वितीया ... संसारेति, परम्परया संसारस्य कषायाणां कामानाञ्च मोहनीयं प्रधान कारणं तथा संसारस्य कषायाः तेषां कामाः तेषाञ्च मोहः कारणम् , एतत्सूचनाय तथा क्रमोपन्यासः, भवति हि इष्टेतरशब्दादिविषयरूपाः कामाः कषायाणां मूलम् , शब्दादीनामिष्टानिष्टानां प्राप्तौ रागद्वेषाभिहतचेतसः कषायाणां प्रादुर्भावात् , ते च कषायाः संसारस्य कारणम् , कषाया हि कर्मस्थितेर्मूलम् , सत्याञ्च तस्यां 5 संसारोऽवश्यम्भावीति, तस्माच्छब्दादिविषयोद्भूताः कषायाः कर्मस्थितिद्वारेण संसारस्य मूलम् । कर्मणश्च कषाया मूलम् , मिथ्यात्वाविरतिप्रमादकषाययोगानां बन्धहेतुत्वात्, अष्टविधस्यापि कर्मणो मोहनीयान्तर्गताः कषायाः कारणम् , कामानाञ्च मोहनीयम्, कामोऽनङ्गरूपः, तद्गुणाः शब्दादयोऽपि कामपदवाच्याः, वेदोदयप्रयुक्तो हि कामो वेदश्च मोहनीयान्तर्गत एवेति मोहनीयं संसारस्याचं कारणम् । मोहनीयन्तु दर्शनचारित्रमोहनीयभेदेन द्विविधम् , अर्हत्सिद्धचैत्यतपःश्रुतगुरुसाधुसंघप्रत्यनीकतया दर्श10 नमोहनीयस्य कर्मणो बन्धः, येन जीवोऽनन्तसंसारसमुद्रान्तःपात्येवावतिष्ठते । तीव्रकषायबहुराग द्वेषमोहाभिभूतो देशसर्वविरत्युपघातकारिचारित्रमोहनीयं कर्म बध्नाति, दर्शनमोहनीयश्च मिथ्यात्वमिश्रसम्यक्त्वभेदतलिविधम् , चारित्रमोहनीयन्तु षोडशकषायनवनोकषायभेदात् पञ्चविंशतिविधम् । तत्र कामाः शब्दादयः पञ्च चारित्रमोहः, त एवात्र विवक्षिताः, तेषां कषायस्थानत्वात्, संसारतरोहि शारीरमानसोपचिततीव्रतरदुःखप्राप्तिफलस्य प्रियविप्रयोगाप्रियसम्प्रयोगार्थहानिनानाव्याधिकुसुमस्य दारि16 याद्यनेकव्यसनोपनिपातपत्रगहनस्य गर्भनिषेककललार्बुदमांसपेश्यादिजन्मजरामरणशाखस्य नरकतिर्यनरामरगतिस्कन्धस्याष्टप्रकारं कर्म कारणम् , तस्यापि च कर्मणः क्रोधादिकषाया मूलमिति भावः । अथ संसारस्य निक्षेपः व्यतिरिक्तद्रव्यसंसारो द्रव्यसंसृतिरूपः, क्षेत्रसंसारो द्रव्यसंचाराधारक्षेत्रम्, कालसंसारो द्रव्यसंसरणकालः, भवसंसारो नारकतिर्यनरामरगतिचतुर्विधानुपूर्युदयाद्भवान्तरसंक्रमणम् , भावसंसारस्तु औदयिकादिभावपरिणतिः संमृतिस्वभावा, नामस्थापनाद्रव्योत्पत्ति20 प्रत्ययादेशरसभावभेदेनाष्टधा कषायस्य निक्षेपः, नामस्थापने स्पष्टे, व्यतिरिक्तद्रव्यकषायाः कर्मद्रव्यनो कर्मद्रव्यकषायभेदेन द्विधाः, आदित्सितात्तानुदीर्णोदीर्णाः पुद्गला द्रव्यप्राधान्यात् कर्मद्रव्यकषायाः, नोकर्मद्रव्यकषायास्तु बिभीतकादयः, शरीरोपधिक्षेत्रवास्तुस्थाण्वादयो येषामाश्रयेण कषायाणामुदयस्ते उत्पत्तिकषायाः, कषायाणां बन्धकारणभूता मनोज्ञेतरशब्दादयः प्रत्ययकषायाः, कृत्रिमकृतभृकुटीभङ्गा दय आदेशकषायाः, रसकषायस्तु मधुराम्लकटुतिक्तकषायपञ्चकान्तर्गतः कषायः, भावकषायाः 25 शरीरोपधिक्षेत्रवास्तुस्खजनप्रेष्यार्चादिनिमित्ताविर्भूताः शब्दादिकामगुणकार्यभूतकषायकर्मोदयादात्मपरि णामविशेषाः क्रोधमानमायालोभाः प्रत्येकमनन्तानुबन्ध्यादिभेदतः षोडशविधाः, विवेचिताश्चैते मत्कृततत्त्वन्यायविभाकरे । नामस्थापनाद्रव्यक्षेत्रकालभावभेदान्मूलस्य षोढा निक्षेपः, उभयव्यतिरिक्तद्रव्यमूलश्चौदयिकोपदेशादिमूलभेदेन त्रिविधम् , वृक्षादेर्मूलत्वेन परिणतद्रव्याणि औदायिकद्रव्यमूलानि, आतुराय चिकित्सकोपदिष्टं रोगविनाशनसमर्थं मूलं पिप्पलीमूलादिरूपमुपदेशद्रव्यमूलम् , वृक्षादिमू30 लोत्पत्तिप्रथमकारणं स्थावरनामगोत्रप्रकृतिप्रत्ययान्मूलनिवर्तनोत्तरप्रकृतिप्रत्ययाच्च यन्मूलमुत्पद्यते तदादिमूलम् , औदारिकशरीरत्वेन मूलनिवर्तकानामुदयिष्यतां पुद्गलानां कार्मणं शरीरमाचं कारणमिति यावत् । मूलोत्पत्तेस्तव्याख्याया वाऽऽधारभूतं क्षेत्रं क्षेत्रमूलम् , तदुत्पत्तिव्याख्यानयोर्निमित्तभूतः
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy