________________
सूत्रार्थमुक्तावल्याम्
[द्वितीया कृताशुभकर्मोदयाद्धिताहितप्राप्तिपरिहारविमुखोऽतिकरुणां दशामुपगतस्तमेवंविधमन्धादिगुणोपेतं कश्चिकुन्ताग्रेण भिंद्यात् छिन्द्यात् स च भिद्यमानाद्यवस्थां न पश्यति न शृणोति मूकत्वान्नोच्चै रारटीति किमेतावता तस्य वेदनाभावो जीवाभावो वा शक्यो विज्ञातुमेवं पृथिवी जीवा अपि, तस्मादस्ति तेषां वेदना । एवञ्च पृथिवीकायसमारम्भणं बन्धहेतुरेवेति ज्ञात्वा प्रत्याख्यानपरिज्ञया ततो निवृत्तो यः स 5 एव मुनिः, उभयविधपरिज्ञाशालित्वात् , निःशङ्कमनगारगुणपालनाच्च ॥ १२ ॥
अथ यथावसरमप्कायस्य निरूपणमारचयति
प्ररूपणालक्षणपरिमाणोपभोगशस्त्रैरप्कायस्य विशेषः ॥१३॥
प्ररूपणेति, विशेष इति, पृथिवीकायजीवस्वरूपाधिगमनिमित्तद्वारनवकाविशेषेऽपि केचिद्विशेषा एभिरस्य सन्तीति भावः, तथाहि प्ररूपणा तावत्-अप्कायजीवास्सूक्ष्मबादररूपेण द्विविधाः, 10 सूक्ष्माः सर्वलोकव्यापिनः । बादराः पञ्चविधाः शुद्धोदकावश्यायहिममहिकाहरतनुभेदात् , तडागसमुद्रनदीप्रभृतिगतमवश्यायरहितं शुद्धोदकम् , रजन्यां यः स्नेहः पतति सोऽवश्यायः, शिशिरसमये शीतपुद्गलसम्पर्कात् कठिनीभूतं जलं हिमम्, गर्भमासादिषु सायं प्रातर्वा धूमिकापातो महिका, वर्षाशरत्कालयोहरिताङ्कुरमस्तकस्थितो जलबिन्दुभूमिस्नेहसंपर्कोद्भूतो हरतनुरिति । एते बादराप्कायाः पर्याप्तापर्याप्तभेदेन द्विविधाः, वर्णगन्धादीनसम्प्राप्ता अपर्याप्ताः, पर्याप्तास्तु वर्णगन्धस्पर्शादेशैः सहस्राप्रशो 15 भिद्यन्ते, ततश्च संख्येयानि योनिप्रमुखाणि शतसहस्राणि भेदानां भवन्ति, संवृतयोनयश्चैते, सा च
योनिः सचित्ताचित्तमिश्रभेदानिधा, पुनश्च शीतोष्णोभयभेदात्रिविधा, एवं गण्यमाना योनीनां सप्तलक्षा भवन्ति । परिमाणम्-पृथिवीवत्, परन्तु बादरपृथिवीकायपर्याप्तकेभ्यो बादराप्कायपर्याप्तका असंख्येयगुणाः, बादरपृथिवीकायापर्याप्तकेभ्यो बादराप्कायापर्याप्तका असंख्येयगुणाः, सूक्ष्मपृथिवीकायापर्याप्तकेभ्यः सूक्ष्माप्कायापर्याप्तका विशेषाधिकाः, सूक्ष्मपृथिवीकायपर्याप्तकेभ्यः सूक्ष्माकायपर्याप्तका 20 विशेषाधिका इति विशेषः। लक्षणम्-ननु नाप्कायो जीवस्तल्लक्षणायोगात् प्रश्रवणादिवत्, मैवम् , सचेतना आपः, शस्त्रानुपहतत्वे सति द्रवत्वात् , प्रश्रवणादौ व्यभिचारवारणाय सत्यन्तम् , हस्तिशरीरोपादानभूतकललवत्, अनुपहतद्रवत्वादण्डकमध्यस्थितकललवदित्यनुमानेन तल्लक्षणायोगादिति हेतोरसिद्धेः, तथाऽऽपो जीवशरीराणि, छेद्यत्वभेद्यत्वादिभ्यः, सानाविषाणादिसंघातवदित्येवमप शरीरत्वे सिद्धे सचेतना हिमादयः कचिदप्कायत्वात् , इतरोदकवत्, सचेतना आपः कचित् खावभूमिस्वाभा25 विकसम्भवात्, दर्दुरवदित्येवंविधलक्षणयोगित्वादप्काया भवन्ति जीवाः। उपभोगः स्नानपानधावन
भक्तकरणसेकयानपात्रोडुपगमनागमनादिः, एतदुपभोगेच्छया जीवा अप्कायवघे प्रवर्तन्ते करणत्रयैः । शस्त्रमपि कोशादिना उत्सेचनगालनधावनादिकं समासतो द्रव्यशस्त्रम्, विभागतो द्रव्यशस्खं स्वकायशस्त्रलक्षणं नादेयं जलं तडागस्य, परकायशस्त्रं मृत्तिकास्नेहक्षारादि, उभयशस्त्रन्तु उदकमिश्रितमृत्तिकाऽम्भसः, भावशस्त्रञ्चासंयमः प्रमत्तस्य दुष्प्रणिहितमनोवाकायलक्षणः ॥ १३ ॥ 30 ननु यद्याप एव जीवास्ततस्तत्परिभोगे सत्यवश्यं साधूनामपि प्राणातिपातदोषप्रसङ्ग इत्याशङ्कायामाह
अचित्तोदकमेव परिभोग्यम् ॥ १४ ॥