SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ १२ सूत्रार्थमुक्तावल्याम् [ प्रथमा विशेषा एते, मृदंगाद्यजीवेषु पड्जादिव्युत्पत्त्यर्थाभावेऽपि तत्सादृश्यात्तत्त्वमवगन्तव्यम्, तदेवमेतैः षड्जादिभिः सप्तभिर्नामभिस्सर्वस्यापि स्वर मण्डलस्याभिधानात्सप्त नामोच्यते । विभक्तिभिरिति, विभज्यते प्रकटीक्रियतेऽर्थ आभिरिति विभक्तयस्ताभिरिति विग्रहः नामविभक्तयो ग्राह्या नाख्यातविभक्तयः, ते चाष्टविधाः लिङ्गार्थमात्रप्रतिपादनरूपे निर्देशे प्रथमा विभक्तिर्भवति, अन्यतरक्रियायां प्रवर्त्तने च्छो5 त्पादनरूपे उपदेशे द्वितीया, उपलक्षणमिदं करोतीत्यादावुपदेशमन्तरेणापि द्वितीयाया दर्शनात्, एवमग्रेऽपि, विवक्षितक्रियासाधकतमे करणे तृतीया, यस्मै सम्प्रदीयते तस्मिन् गवादिदानपात्रभूते सम्प्रदाने चतुर्थी, वियुज्यमानावधिभूतेऽपादाने पञ्चमी, स्वस्वामिभावादिसम्बन्धे षष्ठी, आधारार्थे सप्तमी, आमत्रणार्थे संबोधनविभक्तिरिति एतद्विभत्तयन्तं नामाप्यष्टविधम्, न च विभक्तिमन्तरेणान्यन्नामास्ति, अतोऽनेन नामाष्टकेन सर्वस्य वस्तुनोऽभिधानद्वारा सङ्ग्रहणादष्टनाम । वीरशृङ्गाराद्भुतरौद्रवीडन10 कबीभत्सहास्यकरुणशान्तैरिति, एते काव्येषूपनिबद्धा रसाः तत्तत्सहकारिकारणसन्निधानोद्भूताचेतोविकारविशेषाः, उत्तमप्रकृतिपुरुषचरितश्रवणादिहेतुसमुद्भूतो दानाद्युत्साहप्रकर्षात्मको वीरः, कमनीयकामिनीविलोकनादिसम्भवो रतिप्रकर्षात्मकः शृङ्गारः, श्रुतं शिल्पं यागतपः शौर्यकर्मादि वा सकलभुवनातिशायि किमप्यपूर्वं वस्त्वद्भुतमुच्यते तद्दर्शनश्रवणादिभ्यो जातो रसोऽप्युपचाराद्विस्मयरूपोऽद्भुतः, रिपुजनमहारण्यादिदर्शनाद्युद्भवो विकृताध्यवसायरूपो रसो रौद्रः, लज्जनीयवस्तुदर्शनादिप्रभवो मनः15 संकोचनादिस्वरूपो ब्रीडनकः, शुक्रशोणितोच्चारप्रस्रवणादिदर्शनश्रवणादिप्रभवो जुगुप्साप्रकर्ष स्वरूपो बीभत्सः, विकृतासम्बद्धपरवचनवेषालंकारादिह। स्यार्ह पदार्थप्रभवो मनःप्रकर्षादिचेष्टात्मको हास्यः, प्रियविप्रयोगादिदुःखहेतुसमुत्थः शोकप्रकर्षस्वरूपः करुणो रसः, परमगुरुवचनश्रवणादिहेतुसमुल्लसित उपशमप्रकर्षात्मा शान्तो रसः । तथा चैतैर्नवभिर्नामभिर्विवक्षितस्य रसस्य सर्वस्याप्यभिधानान्नव नामेदमुच्यते । गौणनोगौणाऽऽदानपदप्रतिपक्षपदप्रधानतानादिसिद्धान्तनामावयवसंयो20 गप्रमाणैरिति, गुणैर्निष्पन्नं गौणं यथा क्षमणतपनादिपदानि, क्षमालक्षणतपनलक्षणादिगुणनिष्पन्नत्वात् सान्वर्थं पदमिति यावत्, यत्तु न गुणनिष्पन्नं तन्नो गौणं, अन्वर्थाननुयायीति यावत्, यथा समुद्रसमुद्रादयः, समुद्रशब्दो हि कर्पूराद्याधारविशेषे वर्त्तते स चाविद्यमानमुद्गः, समुद्रो जलराशौ वर्त्तते स चाङ्गुल्याभरणविशेषभूतमुद्रारहित इति । आदीयते तत्प्रथमतयोच्चारयितुमारभ्यते शास्त्राद्यनेनेत्यादानं तच्च तत्पदञ्चादानपदं, शास्त्रस्याध्ययनो देशका देवादिपदमित्यर्थस्तेन हेतुभूतेन किमपि नाम भवति, यथा 25 आवन्तीत्याचारस्य पञ्चमाध्ययनं तत्र ह्यादावेव ' आवन्ती केयावन्ती 'त्यालापको विद्यत इत्यादान - पदेनैतन्नाम, एवमन्यदपि भावनीयम् । विवक्षितधर्मस्य विपरीतः प्रतिपक्षस्तद्वाचकं पदं प्रतिपक्षपदं यथा शृगाली अशिवाऽपि अमाङ्गलिकशब्दपरिहारार्थं शिवा भण्यते, नोगौणं प्रवृत्तिनिमित्ताभावमात्रेणोक्तं, प्रतिपक्षपदन्तु प्रतिपक्षधर्मवाचकत्व सापेक्षमिति विशेषः । प्रधानस्य भावः प्रधानता तथा नाम किमपि भवति, यथा अशोकवृक्षबहुलमल्पाम्रादिवृक्षयुतं वनमशोकवनमिति, गुणव्याप्तपदार्थवाचकं गौणपदं, 30 अनेकतद्घटित पदार्थवाचकमिदमिति विशेषः । अनादिकालादारभ्येदं वाच्यमिदं वाचकमिति वाच्यवाचकभावेन सिद्धो यः परिच्छेदः सोऽनादिसिद्धान्तः तेन निष्पन्नं नाम, यथा धर्मास्तिकायादिपदं एतत्पदवाच्योऽर्थः कदाऽप्यन्यथात्वं न भजते, गौणपदप्रतिपाद्यस्तु पदार्थः प्रदीपादिर्दीपकलिकादि
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy