SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ३१० सूत्रार्थमुक्तावल्याम् [पञ्चमी धर्मकथाः, दीर्घत्वं संज्ञात्वात् , तत्रोदाहरणभूतमेघकुमारादीनां नगरादयो व्याख्यायन्ते तथा कर्मविनयकरे विनयकरणजिनस्वामिशासनवरे प्रवचने प्रव्रजितानां संयमप्रतिज्ञापालने ये धृतिमतिव्यवसायास्तेषु दुर्बलानां तत्र धृतिश्चित्तस्वास्थ्यं मतिर्बुद्धिः, व्यवसायोऽनुष्ठानोत्साहः, एवं तपोनियमो नियंत्रितं तपः, तपउपधानं-अनियंत्रितं तपः, तत्र पराङ्मुखीभूतानां घोरैः परीषहै: पराजितानामत । एव प्रतिरुद्धसिद्धालयमार्गगतीनां तुच्छेषु विषयसुखेष्वाशावशदोषेण मूर्च्छितानां विराधितज्ञानदर्शनचारित्राणां संसारेऽनन्तक्लेशरूपासु नारकतिर्यक्कुमानुषकुदेवत्वरूपासु दुर्गतिषु परिभ्रमणं व्याख्यायते, तथा धीराणां सुगत्यादीनि च ॥ ९३ ॥ अथ सप्तमाङ्गवक्तव्यतामाविष्करोति उपासकानां नगरादीनि शीलवतविरमणगुणप्रत्याख्यानपौषधोपवा10 सश्रुतपरिग्रहतपउपधानप्रतिमादय उपासकदशासु ॥ ९४ ॥ उपासकानामिति, व्यावर्ण्यन्त इति वचनविपरिणामेनान्वयः, एवमप्रेऽपि । उपासकाः श्रावकाः, तद्गतक्रियाकलापप्रतिबद्धा दशाः-दशाध्ययनोपलक्षिता उपासकदशास्तासु उपासकानां नगरोद्यानचैत्यवनखण्डराजानः, अम्बापितरौ समवसरणानि धर्माचार्या धर्मकथा ऐहलौकिकपारलौकिका ऋद्धिविशेषाः, तथा शीलव्रतानि-अणुव्रतानि, विरमणानि-रागादिविरतयः, गुणाः-गुणव्रतानि, 15 प्रत्याख्यानानि नमस्कारसहितादीनि, पौषधः-अष्टम्यादिपर्वदिनं तत्रोपवसनं-आहारशरीरसत्कारादित्यागः, श्रुतपरिग्रहाः प्रव्रज्यातः, तपउपधानानि प्रतीतानि, प्रतिमाः-एकादशोपासकप्रतिमाः, उपसर्गाः-देवादिकृतोपद्रवाः, संलेखनाभक्तपानप्रत्याख्यानानि, पादपोपगमनानि, देवलोकगमनानि, सुकुलप्रत्यायातिः, पुनर्बोधिलाभोऽन्तक्रिया चैते विशेषेणाऽऽख्यायन्ते ॥ ९४ ॥ ___अथाष्टमाङ्गवक्तव्यतामादर्शयति20 अन्तकृतानां नगरादीनि क्षमामार्दवादीनि केवललाभः पादपोपगमनादीन्यन्तकृतदशासु ॥ ९५॥ अन्तकृतानामिति, अन्तो विनाशः स च कर्मणस्तत्फलस्य वा संसारस्य, स कृतो यैस्तेऽन्तकृतास्ते च तीर्थकरादयः, तेषां दशाः दशाध्ययनोपलक्षिताः तासु, अन्तकृतानां नगरादीनि नगरो द्यानचैत्यवनराजानः अम्बापितरौ समवसरणादीनि च, तथा क्षमामार्दवार्जवशौचसत्यसप्तदशविधसंयमो25 त्तमब्रह्मचर्याकिश्चन्यतपस्त्यागसमितिगुप्त्यादयः, सर्वविरतिं प्राप्तानां जितपरीषहाणां घातिकर्मक्षये सति केवलस्य ज्ञानादेर्लाभः, यावद्वर्षाणि प्रव्रज्यापर्यायस्तपोविशेषाश्रयणादिना मुनिभिः पालितो यत्र शत्रुञ्जयपर्वतादौ यावन्ति भक्तानि छेदयित्वा यो मुनिरन्तकृतो जातः तत्सर्वमत्राख्यायते ॥ ९५ ॥ अथ नवमाङ्गवक्तव्यतां प्रकटीकरोति __ अनुत्तरोपपातिकानां नगरादीनि समवसरणानि जिनातिशेषाः श्रम७० णोत्तमादीनां वर्णका अनुत्तरविमानविषयसुखश्चानुत्तरोपपातिकदशासु ॥१६॥ अनुत्तरोपपातिकानामिति, नास्मादुत्तरो विद्यत इत्यनुत्तरः, उपपतनमुपपातो जन्म,
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy